च्यवन उवाच 001
अवश्यं कथनीयं मे तवैतन्नरपुङ्गव 001a
यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप 001c
भृगूणां क्षत्रिया याज्या नित्यमेव जनाधिप 002a
ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना 002c
क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप 003a
आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः 003c
तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः 004a
और्वो नाम महातेजा ज्वलनार्कसमद्युतिः 004c
स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति 005a
महीं सपर्वतवनां यः करिष्यति भस्मसात् 005c
कञ्चित्कालं तु तं वह्निं स एव शमयिष्यति 006a
समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः 006c
पुत्रं तस्य महाभागमृचीकं भृगुनन्दनम् 007a
साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ 007c
क्षत्रियाणामभावाय दैवयुक्तेन हेतुना 008a
स तु तं प्रतिगृह्यैव पुत्रे सङ्क्रामयिष्यति 008c
जमदग्नौ महाभागे तपसा भावितात्मनि 009a
स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति 009c
कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति 010a
उद्भावनार्थं भवतो वंशस्य नृपसत्तम 010c
गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः 011a
ब्राह्मणं क्षत्रधर्माणं राममुत्पादयिष्यति 011c
क्षत्रियं विप्रकर्माणं बृहस्पतिमिवौजसा 012a
विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् 012c
तपसा महता युक्तं प्रदास्यति महाद्युते 012e
स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः 013a
पितामहनियोगाद्वै नान्यथैतद्भविष्यति 013c
तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति 014a
भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम् 014c
भीष्म उवाच 015
कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः 015a
श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह 015c
एवमस्त्विति धर्मात्मा तदा भरतसत्तम 015e
च्यवनस्तु महातेजाः पुनरेव नराधिपम् 016a
वरार्थं चोदयामास तमुवाच स पार्थिवः 016c
बाढमेवं ग्रहीष्यामि कामं त्वत्तो महामुने 017a
ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत् 017c
एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः 018a
अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा 018c
एतत्ते कथितं सर्वमशेषेण मया नृप 019a
भृगूणां कुशिकानां च प्रति सम्बन्धकारणम् 019c
यथोक्तं मुनिना चापि तथा तदभवन्नृप 020a
जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव ह 020c