च्यवन उवाच 001
वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि 001a
तं च ब्रूहि नरश्रेष्ठ सर्वं सम्पादयामि ते 001c
कुशिक उवाच 002
यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव 002a
कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् 002c
शयनं चैकपार्श्वेन दिवसानेकविंशतिम् 003a
अकिञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गव 003c
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम् 004a
पुनश्च शयनं विप्र दिवसानेकविंशतिम् 004c
तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम 005a
समुपानीय विविधं यद्दग्धं जातवेदसा 005c
निर्याणं च रथेनाशु सहसा यत्कृतं त्वया 005e
धनानां च विसर्गस्य वनस्यापि च दर्शनम् 006a
प्रासादानां बहूनां च काञ्चनानां महामुने 006c
मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम् 007a
पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् 007c
अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम् 008a
न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् 008c
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन 008e
च्यवन उवाच 009
शृणु सर्वमशेषेण यदिदं येन हेतुना 009a
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव 009c
पितामहस्य वदतः पुरा देवसमागमे 010a
श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु 010c
ब्रह्मक्षत्रविरोधेन भविता कुलसङ्करः 011a
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः 011c
ततः स्वकुलरक्षार्थमहं त्वा समुपागमम् 012a
चिकीर्षन्कुशिकोच्छेदं सन्दिधक्षुः कुलं तव 012c
ततोऽहमागम्य पुरा त्वामवोचं महीपते 013a
नियमं कञ्चिदारप्स्ये शुश्रूषा क्रियतामिति 013c
न च ते दुष्कृतं किञ्चिदहमासादयं गृहे 014a
तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा 014c
एतां बुद्धिं समास्थाय दिवसानेकविंशतिम् 015a
सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव 015c
यदा त्वया सभार्येण संसुप्तो न प्रबोधितः 016a
अहं तदैव ते प्रीतो मनसा राजसत्तम 016c
उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते 017a
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो 017c
अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे 018a
योगमास्थाय संविष्टो दिवसानेकविंशतिम् 018c
क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप 019a
एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा 019c
न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव 020a
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् 020c
भोजनं च समानाय्य यत्तदादीपितं मया 021a
क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते 021c
ततोऽहं रथमारुह्य त्वामवोचं नराधिप 022a
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा 022c
अविशङ्को नरपते प्रीतोऽहं चापि तेन ते 023a
धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत् 023c
ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव 024a
सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप 024c
प्रीत्यर्थं तव चैतन्मे स्वर्गसन्दर्शनं कृतम् 025a
यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् 025c
स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव 026a
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम 026c
निदर्शनार्थं तपसो धर्मस्य च नराधिप 027a
तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम 027c
ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते 028a
अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव 028c
एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम् 029a
ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता 029c
भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः 030a
तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति 030c
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा 031a
पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः 031c
यः स देवमनुष्याणां भयमुत्पादयिष्यति 032a
त्रयाणां चैव लोकानां सत्यमेतद्ब्रवीमि ते 032c
वरं गृहाण राजर्षे यस्ते मनसि वर्तते 033a
तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते 033c
कुशिक उवाच 034
एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने 034a
भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ 034c
ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः 034e
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै 035a
कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन 035c
कश्चासौ भविता बन्धुर्मम कश्चापि सम्मतः 035e