भीष्म उवाच 001
ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः 001a
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति 001c
ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् 002a
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् 002c
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा 002e
पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः 003a
चित्रशालाश्च विविधास्तोरणानि च भारत 003c
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् 003e
सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान् 004a
अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् 004c
चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि 005a
पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह 005c
श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम् 006a
तत्र तत्र परिकॢप्ता ददर्श स महीपतिः 006c
वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा 007a
विमानच्छन्दकांश्चापि प्रासादान्पद्मसन्निभान् 007c
शीतलानि च तोयानि क्वचिदुष्णानि भारत 008a
आसनानि विचित्राणि शयनप्रवराणि च 008c
पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तरणास्तृतान् 009a
भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम् 009c
वाणीवादाञ्छुकांश्चापि शारिकाभृङ्गराजकान् 010a
कोकिलाञ्छतपत्रांश्च कोयष्टिमककुक्कुटान् 010c
मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान् 011a
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् 011c
समन्ततः प्रणदितान्ददर्श सुमनोहरान् 012a
क्वचिदप्सरसां सङ्घान्गन्धर्वाणां च पार्थिव 012c
कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह 013a
न ददर्श च तान्भूयो ददर्श च पुनर्नृपः 013c
गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् 014a
हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः 014c
तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा 015a
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु 015c
अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम् 016a
उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम् 016c
किं त्विदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत् 017a
एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् 017c
तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले 018a
महार्हे शयने दिव्ये शयानं भृगुनन्दनम् 018c
तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया 019a
अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत् 019c
ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् 020a
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् 020c
एवं योगबलाद्विप्रो मोहयामास पार्थिवम् 020e
क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः 021a
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत 021c
निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप 022a
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा 022c
ततः स राजा कुशिकः सभार्यस्तेन कर्मणा 023a
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् 023c
ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः 024a
पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः 024c
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् 025a
तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः 025c
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते 026a
तपसा हि सुतप्तेन क्रीडत्येष तपोधनः 026c
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः 027a
इच्छन्नेष तपोवीर्यादन्याल्ँलोकान्सृजेदपि 027c
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः 028a
उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते 028c
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः 029a
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् 029c
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै 030a
सम्प्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति 030c
इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम् 031a
शिरसा वन्दनीयं तमवन्दत स पार्थिवः 031c
तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् 032a
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ 032c
ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् 033a
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत 033c
राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया 034a
मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै 034c
सम्यगाराधितः पुत्र त्वयाहं वदतां वर 035a
न हि ते वृजिनं किञ्चित्सुसूक्ष्ममपि विद्यते 035c
अनुजानीहि मां राजन्गमिष्यामि यथागतम् 036a
प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् 036c
कुशिक उवाच 037
अग्निमध्यगतेनेदं भगवन्सन्निधौ मया 037a
वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु 037c
एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन 038a
यत्प्रीतोऽसि समाचारात्कुलं पूतं ममानघ 038c
एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम् 039a
एतद्राज्यफलं चैव तपश्चैतत्परं मम 039c
यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन 040a
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि 040c