युधिष्ठिर उवाच 001
तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा 001a
भार्या चास्य महाभागा तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया 002a
परिश्रान्तो निववृते व्रीडितो नष्टचेतनः 002c
स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन 003a
तदेव चिन्तयामास च्यवनस्य विचेष्टितम् 003c
अथ शून्येन मनसा प्रविवेश गृहं नृपः 004a
ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् 004c
विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य च 005a
दर्शनात्तस्य च मुनेर्विश्रान्तौ सम्बभूवतुः 005c
यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः 006a
अथापरेण पार्श्वेन सुष्वाप स महामुनिः 006c
तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान् 007a
न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्कितौ 007c
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते 008a
तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत 008c
तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ 009a
शतपाकेन तैलेन महार्हेणोपतस्थतुः 009c
ततः सुखासीनमृषिं वाग्यतौ संववाहतुः 010a
न च पर्याप्तमित्याह भार्गवः सुमहातपाः 010c
यदा तौ निर्विकारौ तु लक्षयामास भार्गवः 011a
तत उत्थाय सहसा स्नानशालां विवेश ह 011c
कॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् 011e
असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयत 012a
स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा 012c
नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ 012e
अथ स्नातः स भगवान्सिंहासनगतः प्रभुः 013a
दर्शयामास कुशिकं सभार्यं भृगुनन्दनः 013c
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् 014a
सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् 014c
आनीयतामिति मुनिस्तं चोवाच नराधिपम् 015a
राजा च समुपाजह्रे तदन्नं सह भार्यया 015c
मांसप्रकारान्विविधाञ्शाकानि विविधानि च 016a
वेसवारविकारांश्च पानकानि लघूनि च 016c
रसालापूपकांश्चित्रान्मोदकानथ षाडवान् 017a
रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् 017c
फलानि च विचित्राणि तथा भोज्यानि भूरिशः 018a
बदरेङ्गुदकाश्मर्यभल्लातकवटानि च 018c
गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् 019a
सर्वमाहारयामास राजा शापभयान्मुनेः 019c
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् 020a
ततः सर्वं समानीय तच्च शय्यासनं मुनिः 020c
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह 021a
सर्वमादीपयामास च्यवनो भृगुनन्दनः 021c
न च तौ चक्रतुः कोपं दम्पती सुमहाव्रतौ 022a
तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत् 022c
तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा 023a
सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत् 023c
नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि 024a
शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः 024c
वस्त्रं च विविधाकारमभवत्समुपार्जितम् 025a
न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा 025c
पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् 026a
सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् 026c
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् 027a
क्रीडारथोऽस्तु भगवन्नुत साङ्ग्रामिको रथः 027c
इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः 028a
च्यवनः प्रत्युवाचेदं हृष्टः परपुरञ्जयम् 028c
सज्जीकुरु रथं क्षिप्रं यस्ते साङ्ग्रामिको मतः 029a
सायुधः सपताकश्च सशक्तिः कणयष्टिमान् 029c
किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैः 030a
गदाखड्गनिबद्धश्च परमेषुशतान्वितः 030c
ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् 031a
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा 031c
त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् 032a
सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् 032c
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दनः 033a
यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः 033c
एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् 034a
इतःप्रभृति यातव्यं पदकं पदकं शनैः 034c
श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ 035a
सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु 035c
नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु 036a
ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि 036c
सर्वं दास्याम्यशेषेण धनं रत्नानि चैव हि 037a
क्रियतां निखिलेनैतन्मा विचारय पार्थिव 037c
तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् 038a
यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः 038c
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् 039a
कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः 039c
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः 040a
हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत् 040c
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ 041a
पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः 041c
वेपमानौ विराहारौ पञ्चाशद्रात्रकर्शितौ 042a
कथञ्चिदूहतुर्वीरौ दम्पती तं रथोत्तमम् 042c
बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् 043a
ददृशाते महाराज पुष्पिताविव किंशुकौ 043c
तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः 044a
अभिशापभयात्त्रस्तो न च किञ्चिदुवाच ह 044c
द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम् 045a
क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः 045c
अहो भगवतो वीर्यं महर्षेर्भावितात्मनः 046a
राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् 046c
श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः 047a
न चैतयोर्विकारं वै ददर्श भृगुनन्दनः 047c
भीष्म उवाच 048
ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः 048a
वसु विश्राणयामास यथा वैश्रवणस्तथा 048c
तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत् 049a
ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः 049c
अवतीर्य रथश्रेष्ठाद्दम्पती तौ मुमोच ह 050a
विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह 050c
स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया 051a
ददानि वां वरं श्रेष्ठं तद्ब्रूतामिति भारत 051c
सुकुमारौ च तौ विद्वान्कराभ्यां मुनिसत्तमः 052a
पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम 052c
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह 053a
विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेति भार्गव 053c
अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा 054a
न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति 054c
रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् 055a
कञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव 055c
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि 056a
इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप 056c
न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम् 057a
यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं सम्भविष्यति 057c
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना 058a
प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् 058c
न मे मन्युर्महाभाग पूतोऽस्मि भगवंस्त्वया 059a
संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ 059c
प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वया 060a
तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया 060c
इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम् 061a
श्रिया परमया युक्तां यथादृष्टां मया पुरा 061c
तव प्रसादात्संवृत्तमिदं सर्वं महामुने 062a
नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम 062c
इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा 063a
आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप 063c
इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् 064a
प्रययौ वपुषा युक्तो नगरं देवराजवत् 064c
तत एनमुपाजग्मुरमात्याः सपुरोहिताः 065a
बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा 065c
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् 066a
प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः 066c
ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः 067a
भुक्त्वा सभार्यो रजनीमुवास स महीपतिः 067c
ततस्तु तौ नवमभिवीक्ष्य यौवनं परस्परं विगतजराविवामरौ 068a
ननन्दतुः शयनगतौ वपुर्धरौ श्रिया युतौ द्विजवरदत्तया तया 068c
स चाप्यृषिर्भृगुकुलकीर्तिवर्धनस्तपोधनो वनमभिराममृद्धिमत् 069a
मनीषया बहुविधरत्नभूषितं ससर्ज यन्नास्ति शतक्रतोरपि 069c