युधिष्ठिर उवाच 001
संशयो मे महाप्राज्ञ सुमहान्सागरोपमः 001a
तन्मे शृणु महाबाहो श्रुत्वा चाख्यातुमर्हसि 001c
कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो 002a
रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि 002c
कथमेष समुत्पन्नो रामः सत्यपराक्रमः 003a
कथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत 003c
तदस्य सम्भवं राजन्निखिलेनानुकीर्तय 004a
कौशिकाच्च कथं वंशात्क्षत्राद्वै ब्राह्मणोऽभवत् 004c
अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः 005a
रामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह 005c
कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत् 006a
एष दोषः सुतान्हित्वा तन्मे व्याख्यातुमर्हसि 006c
भीष्म उवाच 007
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 007a
च्यवनस्य च संवादं कुशिकस्य च भारत 007c
एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा 008a
आगामिनं महाबुद्धिः स्ववंशे मुनिपुङ्गवः 008c
सञ्चिन्त्य मनसा सर्वं गुणदोषबलाबलम् 009a
दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः 009c
च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत् 010a
वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ 010c
कुशिक उवाच 011
भगवन्सहधर्मोऽयं पण्डितैरिह धार्यते 011a
प्रदानकाले कन्यानामुच्यते च सदा बुधैः 011c
यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन 012a
तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि 012c
भीष्म उवाच 013
अथासनमुपादाय च्यवनस्य महामुनेः 013a
कुशिको भार्यया सार्धमाजगाम यतो मुनिः 013c
प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् 014a
कारयामास सर्वाश्च क्रियास्तस्य महात्मनः 014c
ततः स राजा च्यवनं मधुपर्कं यथाविधि 015a
प्रत्यग्राहयदव्यग्रो महात्मा नियतव्रतः 015c
सत्कृत्य स तथा विप्रमिदं वचनमब्रवीत् 016a
भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे 016c
यदि राज्यं यदि धनं यदि गाः संशितव्रत 017a
यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते 017c
इदं गृहमिदं राज्यमिदं धर्मासनं च ते 018a
राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवांस्त्वयि 018c
एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा 019a
कुशिकं प्रत्युवाचेदं मुदा परमया युतः 019c
न राज्यं कामये राजन्न धनं न च योषितः 020a
न च गा न च ते देशान्न यज्ञाञ्श्रूयतामिदम् 020c
नियमं कञ्चिदारप्स्ये युवयोर्यदि रोचते 021a
परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया 021c
एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः 022a
प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत 022c
अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम् 023a
गृहोद्देशं ततस्तत्र दर्शनीयमदर्शयत् 023c
इयं शय्या भगवतो यथाकाममिहोष्यताम् 024a
प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन 024c
अथ सूर्योऽतिचक्राम तेषां संवदतां तथा 025a
अथर्षिश्चोदयामास पानमन्नं तथैव च 025c
तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा 026a
किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् 026c
ततः स परया प्रीत्या प्रत्युवाच जनाधिपम् 027a
औपपत्तिकमाहारं प्रयच्छस्वेति भारत 027c
तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः 028a
यथोपपन्नं चाहारं तस्मै प्रादाज्जनाधिपः 028c
ततः स भगवान्भुक्त्वा दम्पती प्राह धर्मवित् 029a
स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो 029c
ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः 030a
संविवेश नरेन्द्रस्तु सपत्नीकः स्थितोऽभवत् 030c
न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः 031a
संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि 031c
अविशङ्कश्च कुशिकस्तथेत्याह स धर्मवित् 032a
न प्रबोधयतां तं च तौ तदा रजनीक्षये 032c
यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा 033a
बभूवतुर्महाराज प्रयतावथ दम्पती 033c
ततः स भगवान्विप्रः समादिश्य नराधिपम् 034a
सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् 034c
स तु राजा निराहारः सभार्यः कुरुनन्दन 035a
पर्युपासत तं हृष्टश्च्यवनाराधने रतः 035c
भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः 036a
अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः 036c
तमन्वगच्छतां तौ तु क्षुधितौ श्रमकर्शितौ 037a
भार्यापती मुनिश्रेष्ठो न च ताववलोकयत् 037c
तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहः 038a
अन्तर्हितोऽभूद्राजेन्द्र ततो राजापतत्क्षितौ 038c
स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः 039a
पुनरन्वेषणे यत्नमकरोत्परमं तदा 039c