भीष्म उवाच 001
नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम् 001a
त्वरितः प्रययौ तत्र सहामात्यपुरोहितः 001c
शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः 002a
आत्मानमाचचक्षे च च्यवनाय महात्मने 002c
अर्चयामास तं चापि तस्य राज्ञः पुरोहितः 003a
सत्यव्रतं महाभागं देवकल्पं विशां पते 003c
नहुष उवाच 004
करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि 004a
सर्वं कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम् 004c
च्यवन उवाच 005
श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः 005a
मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह 005c
नहुष उवाच 006
सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित 006a
निष्क्रयार्थं भगवतो यथाह भृगुनन्दनः 006c
च्यवन उवाच 007
सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप 007a
सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु 007c
नहुष उवाच 008
सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम् 008a
स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान् 008c
च्यवन उवाच 009
नाहं शतसहस्रेण निमेयः पार्थिवर्षभ 009a
दीयतां सदृशं मूल्यममात्यैः सह चिन्तय 009c
नहुष उवाच 010
कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित 010a
यदेतदपि नौपम्यमतो भूयः प्रदीयताम् 010c
च्यवन उवाच 011
राजन्नार्हाम्यहं कोटिं भूयो वापि महाद्युते 011a
सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय 011c
नहुष उवाच 012
अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम् 012a
एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज 012c
च्यवन उवाच 013
अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव 013a
सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् 013c
भीष्म उवाच 014
महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः 014a
स चिन्तयामास तदा सहामात्यपुरोहितः 014c
तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः 015a
नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः 015c
स समाभाष्य राजानमब्रवीद्द्विजसत्तमः 016a
तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति 016c
नाहं मिथ्यावचो ब्रूयां स्वैरेष्वपि कुतोऽन्यथा 017a
भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया 017c
नहुष उवाच 018
ब्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः 018a
परित्रायस्व मामस्माद्विषयं च कुलं च मे 018c
हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् 019a
किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम् 019c
अगाधेऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः 020a
प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् 020c
भीष्म उवाच 021
नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् 021a
उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् 021c
अनर्घेया महाराज द्विजा वर्णमहत्तमाः 022a
गावश्च पृथिवीपाल गौर्मूल्यं परिकल्प्यताम् 022c
नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप 023a
हर्षेण महता युक्तः सहामात्यपुरोहितः 023c
अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् 024a
इदं प्रोवाच नृपते वाचा सन्तर्पयन्निव 024c
उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव 025a
एतन्मूल्यमहं मन्ये तव धर्मभृतां वर 025c
च्यवन उवाच 026
उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ 026a
गोभिस्तुल्यं न पश्यामि धनं किञ्चिदिहाच्युत 026c
कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव 027a
गवां प्रशस्यते वीर सर्वपापहरं शिवम् 027c
गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते 028a
अन्नमेव सदा गावो देवानां परमं हविः 028c
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ 029a
गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य ता मुखम् 029c
अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति च 030a
अमृतायतनं चैताः सर्वलोकनमस्कृताः 030c
तेजसा वपुषा चैव गावो वह्निसमा भुवि 031a
गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः 031c
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् 032a
विराजयति तं देशं पाप्मानं चापकर्षति 032c
गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः 033a
गावः कामदुघा देव्यो नान्यत्किञ्चित्परं स्मृतम् 033c
इत्येतद्गोषु मे प्रोक्तं माहात्म्यं पार्थिवर्षभ 034a
गुणैकदेशवचनं शक्यं पारायणं न तु 034c
निषादा ऊचुः 035
दर्शनं कथनं चैव सहास्माभिः कृतं मुने 035a
सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो 035c
हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः 036a
एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान् 036c
प्रसादयामहे विद्वन्भवन्तं प्रणता वयम् 037a
अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् 037c
च्यवन उवाच 038
कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च 038a
नरं समूलं दहति कक्षमग्निरिव ज्वलन् 038c
प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः 039a
दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह 039c
भीष्म उवाच 040
ततस्तस्य प्रसादात्ते महर्षेर्भावितात्मनः 040a
निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः 040c
ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् 041a
आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ 041c
ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः 042a
वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् 042c
ततो राजा महावीर्यो नहुषः पृथिवीपतिः 043a
परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम 043c
ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः 044a
तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् 044c
समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम् 045a
गविजश्च महातेजाः स्वमाश्रमपदं ययौ 045c
निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप 046a
नहुषोऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम् 046c
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि 047a
दर्शने यादृशः स्नेहः संवासे च युधिष्ठिर 047c
महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् 048a
किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् 048c