युधिष्ठिर उवाच 001
दर्शने कीदृशः स्नेहः संवासे च पितामह 001a
महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते 002a
नहुषस्य च संवादं महर्षेश्च्यवनस्य च 002c
पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ 003a
उदवासकृतारम्भो बभूव सुमहाव्रतः 003c
निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च 004a
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः 004c
आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम् 005a
जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः 005c
स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च 006a
गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह 006c
गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम् 007a
प्रतिजग्राह शिरसा वातवेगसमं जवे 007c
गङ्गा च यमुना चैव सरितश्चानुगास्तयोः 008a
प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् 008c
अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः 009a
ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ 009c
जलौकसां स सत्त्वानां बभूव प्रियदर्शनः 010a
उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः 010c
तत्र तस्यासतः कालः समतीतोऽभवन्महान् 010e
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः 011a
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते 011c
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः 012a
व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः 012c
अभ्याययुश्च तं देशं निश्चिता जालकर्मणि 012e
जालं च योजयामासुर्विशेषेण जनाधिप 013a
मत्स्योदकं समासाद्य तदा भरतसत्तम 013c
ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः 014a
गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः 014c
जालं सुविततं तेषां नवसूत्रकृतं तथा 015a
विस्तारायामसम्पन्नं यत्तत्र सलिले क्षमम् 015c
ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् 016a
प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा 016c
अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः 017a
बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः 017c
तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् 018a
आकर्षन्त महाराज जालेनाथ यदृच्छया 018c
नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् 019a
लग्नैः शङ्खगणैर्गात्रैः कोष्ठैश्चित्रैरिवावृतम् 019c
तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् 020a
सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि 020c
परिखेदपरित्रासाज्जालस्याकर्षणेन च 021a
मत्स्या बभूवुर्व्यापन्नाः स्थलसङ्कर्षणेन च 021c
स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् 022a
बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः 022c
निषादा ऊचुः 023
अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु 023a
करवाम प्रियं किं ते तन्नो ब्रूहि महामुने 023c
भीष्म उवाच 024
इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् 024a
यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः 024c
प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सह 025a
संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान् 025c
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः 026a
सर्वे विषण्णवदना नहुषाय न्यवेदयन् 026c