युधिष्ठिर उवाच 001
ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक् 001a
कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते 001c
विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः 002a
अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि 002c
भीष्म उवाच 003
आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः 003a
नियुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा 003c
पतितस्य च भार्यायां भर्त्रा सुसमवेतया 004a
तथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः 004c
षडपध्वंसजाश्चापि कानीनापसदास्तथा 005a
इत्येते ते समाख्यातास्तान्विजानीहि भारत 005c
युधिष्ठिर उवाच 006
षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा 006a
एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि 006c
भीष्म उवाच 007
त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर 007a
वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत 007c
एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः 008a
षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु 008c
चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च 009a
वैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः 009c
मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ 010a
ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु 010c
ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः 011a
पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप 011c
युधिष्ठिर उवाच 012
क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् 012a
तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह 012c
भीष्म उवाच 013
रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत् 013a
अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे 013c
युधिष्ठिर उवाच 014
रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम् 014a
अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम् 014c
भीष्म उवाच 015
आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे 015a
न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् 015c
पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते 016a
तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः 016c
अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ 017a
न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ 017c
कश्चिच्च कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते 018a
न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर 018c
युधिष्ठिर उवाच 019
कीदृशः कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते 019a
शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत 019c
भीष्म उवाच 020
मातापितृभ्यां सन्त्यक्तं पथि यं तु प्रलक्षयेत् 020a
न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः 020c
अस्वामिकस्य स्वामित्वं यस्मिन्सम्प्रतिलक्षयेत् 021a
सवर्णस्तं च पोषेत सवर्णस्तस्य जायते 021c
युधिष्ठिर उवाच 022
कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् 022a
देया कन्या कथं चेति तन्मे ब्रूहि पितामह 022c
भीष्म उवाच 023
आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा 023a
त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते 024a
तद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत 024c
अथ देया तु कन्या स्यात्तद्वर्णेन युधिष्ठिर 025a
संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये 025c
कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ 026a
तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः 026c
क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथ 027a
आत्मवद्वै प्रयुञ्जीरन्संस्कारं ब्राह्मणादयः 027c
धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यते 028a
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि 028c