युधिष्ठिर उवाच 001
अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात् 001a
अज्ञानाद्वापि वर्णानां जायते वर्णसङ्करः 001c
तेषामेतेन विधिना जातानां वर्णसङ्करे 002a
को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह 002c
भीष्म उवाच 003
चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् 003a
असृजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः 003c
भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायते 004a
आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः 004c
परं शवाद्ब्राह्मणस्यैष पुत्रः शूद्रापुत्रं पारशवं तमाहुः 005a
शुश्रूषकः स्वस्य कुलस्य स स्यात्स्वं चारित्रं नित्यमथो न जह्यात् 005c
सर्वानुपायानपि सम्प्रधार्य समुद्धरेत्स्वस्य कुलस्य तन्तुम् 006a
ज्येष्ठो यवीयानपि यो द्विजस्य शुश्रूषवान्दानपरायणः स्यात् 006c
तिस्रः क्षत्रियसम्बन्धाद्द्वयोरात्मास्य जायते 007a
हीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः 007c
द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायते 008a
शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते 008c
अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकः 009a
बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् 009c
अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम् 010a
वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् 010c
शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम् 011a
ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनाः 011c
एते मतिमतां श्रेष्ठ वर्णसङ्करजाः प्रभो 011e
बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः 012a
शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् 012c
शूद्रादायोगवश्चापि वैश्यायां ग्रामधर्मिणः 013a
ब्राह्मणैरप्रतिग्राह्यस्तक्षा स वनजीवनः 013c
एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु 014a
मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु 014c
यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायते 015a
आनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः 015c
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु 016a
परस्परस्य वर्तन्तो जनयन्ति विगर्हितान् 016c
यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते 017a
एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रसूयते 017c
प्रतिलोमं तु वर्तन्तो बाह्याद्बाह्यतरं पुनः 018a
हीना हीनात्प्रसूयन्ते वर्णाः पञ्चदशैव ते 018c
अगम्यागमनाच्चैव वर्तते वर्णसङ्करः 019a
व्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु च 019c
प्रसाधनोपचारज्ञमदासं दासजीवनम् 019e
अतश्चायोगवं सूते वागुरावनजीवनम् 020a
मैरेयकं च वैदेहः सम्प्रसूतेऽथ माधुकम् 020c
निषादो मुद्गरं सूते दाशं नावोपजीविनम् 021a
मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम् 021c
चतुरो मागधी सूते क्रूरान्मायोपजीविनः 022a
मांसस्वादुकरं सूदं सौगन्धमिति सञ्ज्ञितम् 022c
वैदेहकाच्च पापिष्ठं क्रूरं भार्योपजीविनम् 023a
निषादान्मद्रनाभं च खरयानप्रयायिनम् 023c
चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् 024a
मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् 024c
आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः 025a
क्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः 025c
कारावरो निषाद्यां तु चर्मकारात्प्रजायते 026a
चण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् 026c
आहिण्डिको निषादेन वैदेह्यां सम्प्रजायते 027a
चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् 027c
निषादी चापि चण्डालात्पुत्रमन्तावसायिनम् 028a
श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् 028c
इत्येताः सङ्करे जात्यः पितृमातृव्यतिक्रमात् 029a
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः 029c
चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते 030a
वर्णानां धर्महीनेषु सञ्ज्ञा नास्तीह कस्यचित् 030c
यदृच्छयोपसम्पन्नैर्यज्ञसाधुबहिष्कृतैः 031a
बाह्या बाह्यैस्तु जायन्ते यथावृत्ति यथाश्रयम् 031c
चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन् 032a
युञ्जन्ते चाप्यलङ्कारांस्तथोपकरणानि च 032c
गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयः 033a
आनृशंस्यमनुक्रोशः सत्यवाक्यमथ क्षमा 033c
स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम् 034a
मनुजव्याघ्र भवति तत्र मे नास्ति संशयः 034c
यथोपदेशं परिकीर्तितासु नरः प्रजायेत विचार्य बुद्धिमान् 035a
विहीनयोनिर्हि सुतोऽवसादयेत्तितीर्षमाणं सलिले यथोपलम् 035c
अविद्वांसमलं लोके विद्वांसमपि वा पुनः 036a
नयन्ते ह्युत्पथं नार्यः कामक्रोधवशानुगम् 036c
स्वभावश्चैव नारीणां नराणामिह दूषणम् 037a
इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः 037c
युधिष्ठिर उवाच 038
वर्णापेतमविज्ञातं नरं कलुषयोनिजम् 038a
आर्यरूपमिवानार्यं कथं विद्यामहे नृप 038c
भीष्म उवाच 039
योनिसङ्कलुषे जातं नानाचारसमाहितम् 039a
कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता 039c
अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता 040a
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् 040c
पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् 041a
न कथञ्चन सङ्कीर्णः प्रकृतिं स्वां नियच्छति 041c
यथैव सदृशो रूपे मातापित्रोर्हि जायते 042a
व्याघ्रश्चित्रैस्तथा योनिं पुरुषः स्वां नियच्छति 042c
कुलस्रोतसि सञ्छन्ने यस्य स्याद्योनिसङ्करः 043a
संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु 043c
आर्यरूपसमाचारं चरन्तं कृतके पथि 044a
स्ववर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये 044c
नानावृत्तेषु भूतेषु नानाकर्मरतेषु च 045a
जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते 045c
शरीरमिह सत्त्वेन नरस्य परिकृष्यते 046a
ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते 046c
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् 047a
अपि शूद्रं तु सद्वृत्तं धर्मज्ञमभिपूजयेत् 047c
आत्मानमाख्याति हि कर्मभिर्नरः स्वशीलचारित्रकृतैः शुभाशुभैः 048a
प्रनष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मभिः 048c
योनिष्वेतासु सर्वासु सङ्कीर्णास्वितरासु च 049a
यत्रात्मानं न जनयेद्बुधस्ताः परिवर्जयेत् 049c