युधिष्ठिर उवाच 001
सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम 001a
अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ 001c
कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह 002a
अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम् 002c
यथा नरेण कर्तव्यं यश्च धर्मः सनातनः 003a
एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति 003c
चतस्रो विहिता भार्या ब्राह्मणस्य पितामह 004a
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः 004c
तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम 005a
आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति 005c
केन वा किं ततो हार्यं पितृवित्तात्पितामह 006a
एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः 006c
भीष्म उवाच 007
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः 007a
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर 007c
वैषम्यादथ वा लोभात्कामाद्वापि परन्तप 008a
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता 008c
शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत् 009a
प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना 009c
तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर 010a
अतस्ते नियमं वित्ते सम्प्रवक्ष्यामि भारत 010c
लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत् 011a
ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् 011c
शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर 012a
तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् 012c
क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः 013a
स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति 013c
वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि 014a
द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर 014c
शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः 015a
अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत 015c
दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः 016a
सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् 016c
अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् 017a
त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् 017c
स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते 018a
हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात् 018c
तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति 019a
अवश्यं हि धनं देयं शूद्रापुत्राय भारत 019c
आनृशंस्यं परो धर्म इति तस्मै प्रदीयते 020a
यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते 020c
यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत् 021a
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत 021c
त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु 022a
यजेत तेन द्रव्येण न वृथा साधयेद्धनम् 022c
त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै 023a
तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति 023c
स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् 024a
नापहारं स्त्रियः कुर्युः पतिवित्तात्कथञ्चन 024c
स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर 025a
ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा 025c
सा हि पुत्रसमा राजन्विहिता कुरुनन्दन 025e
एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ 026a
एतद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम् 026c
युधिष्ठिर उवाच 027
शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः 027a
केन प्रतिविशेषेण दशमोऽप्यस्य दीयते 027c
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः 028a
क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि 028c
कस्मात्ते विषमं भागं भजेरन्नृपसत्तम 029a
यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति 029c
भीष्म उवाच 030
दारा इत्युच्यते लोके नाम्नैकेन परन्तप 030a
प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत् 030c
तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् 031a
सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी 031c
स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् 032a
हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे 032c
न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति 033a
ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर 033c
अन्नं पानं च माल्यं च वासांस्याभरणानि च 034a
ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी 034c
मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन 035a
तत्राप्येष महाराज दृष्टो धर्मः सनातनः 035c
अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर 036a
यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः 036c
ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत् 037a
राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि 037c
न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् 038a
ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम 038c
भूयोऽपि भूयसा हार्यं पितृवित्ताद्युधिष्ठिर 038e
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् 039a
क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् 039c
श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर 040a
विहितं दृश्यते राजन्सागरान्ता च मेदिनी 040c
क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् 041a
राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात् 041c
ब्राह्मणा हि महाभागा देवानामपि देवताः 042a
तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् 042c
प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम् 043a
लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः 043c
दस्युभिर्ह्रियमाणं च धनं दाराश्च सर्वशः 044a
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः 044c
भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः 045a
भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर 045c
युधिष्ठिर उवाच 046
उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह 046a
इतरेषां तु वर्णानां कथं विनियमो भवेत् 046c
भीष्म उवाच 047
क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन 047a
तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता 047c
एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर 048a
अष्टधा तु भवेत्कार्यं क्षत्रियस्वं युधिष्ठिर 048c
क्षत्रियाया हरेत्पुत्रश्चतुरोंऽशान्पितुर्धनात् 049a
युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत् 049c
वैश्यापुत्रस्तु भागांस्त्रीन्शूद्रापुत्रस्तथाष्टमम् 050a
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति 050c
एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन 051a
द्वितीया वा भवेच्छूद्रा न तु दृष्टान्ततः स्मृता 051c
वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ 052a
शूद्रायां चैव कौन्तेय तयोर्विनियमः स्मृतः 052c
पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ 053a
तयोरपत्ये वक्ष्यामि विभागं च जनाधिप 053c
वैश्यापुत्रेण हर्तव्याश्चत्वारोंऽशाः पितुर्धनात् 054a
पञ्चमस्तु भवेद्भागः शूद्रापुत्राय भारत 054c
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति 055a
त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत् 055c
शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथञ्चन 056a
शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत् 056c
जातानां समवर्णासु पुत्राणामविशेषतः 057a
सर्वेषामेव वर्णानां समभागो धने स्मृतः 057c
ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः 058a
एष दायविधिः पार्थ पूर्वमुक्तः स्वयम्भुवा 058c
समवर्णासु जातानां विशेषोऽस्त्यपरो नृप 059a
विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते 059c
हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि 060a
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् 060c
एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः 061a
महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् 061c