भीष्म उवाच 001
प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः 001a
यस्याः किञ्चिन्नाददते ज्ञातयो न स विक्रयः 001c
अर्हणं तत्कुमारीणामानृशंस्यतमं च तत् 002a
सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः 002c
पितृभिर्भ्रातृभिश्चैव श्वशुरैरथ देवरैः 003a
पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः 003c
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् 004a
अमोदनात्पुनः पुंसः प्रजनं न प्रवर्धते 004c
पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप 005a
अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः 005c
तदैव तत्कुलं नास्ति यदा शोचन्ति जामयः 005e
जामीशप्तानि गेहानि निकृत्तानीव कृत्यया 006a
नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव 006c
स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम् 007a
अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः 007c
ईर्ष्यवो मानकामाश्च चण्डा असुहृदोऽबुधाः 008a
स्त्रियो माननमर्हन्ति ता मानयत मानवाः 008c
स्त्रीप्रत्ययो हि वो धर्मो रतिभोगाश्च केवलाः 009a
परिचर्यान्नसंस्कारास्तदायत्ता भवन्तु वः 009c
उत्पादनमपत्यस्य जातस्य परिपालनम् 010a
प्रीत्यर्थं लोकयात्रा च पश्यत स्त्रीनिबन्धनम् 010c
सम्मान्यमानाश्चैताभिः सर्वकार्याण्यवाप्स्यथ 011a
विदेहराजदुहिता चात्र श्लोकमगायत 011c
नास्ति यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् 012a
धर्मस्तु भर्तृशुश्रूषा तया स्वर्गं जयत्युत 012c
पिता रक्षति कौमारे भर्ता रक्षति यौवने 013a
पुत्रास्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति 013c
श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता 014a
लालिता निगृहीता च स्त्री श्रीर्भवति भारत 014c