युधिष्ठिर उवाच 001
कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन 001a
तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
यापुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत् 002a
अथ चेत्साहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा 003a
तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात् 003c
न तस्या मन्त्रवत्कार्यं कश्चित्कुर्वीत किञ्चन 004a
स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत 005a
तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः 005c
एतत्तु नापरे चक्रुर्न परे जातु साधवः 006a
साधूनां पुनराचारो गरीयो धर्मलक्षणम् 006c
अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत् 007a
नप्ता विदेहराजस्य जनकस्य महात्मनः 007c
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् 008a
अनुप्रश्नः संशयो वा सतामेतदुपालभेत् 008c
असदेव हि धर्मस्य प्रमादो धर्म आसुरः 009a
नानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु 009c
भार्यापत्योर्हि सम्बन्धः स्त्रीपुंसोस्तुल्य एव सः 010a
रतिः साधारणो धर्म इति चाह स पार्थिवः 010c
युधिष्ठिर उवाच 011
अथ केन प्रमाणेन पुंसामादीयते धनम् 011a
पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति 011c
भीष्म उवाच 012
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा 012a
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् 012c
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः 013a
दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत् 013c
ददाति हि स पिण्डं वै पितुर्मातामहस्य च 014a
पुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः 014c
अन्यत्र जातया सा हि प्रजया पुत्र ईहते 015a
दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते 015c
दौहित्रकेण धर्मेण नात्र पश्यामि कारणम् 016a
विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते 016c
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः 017a
आसुरादधिसम्भूता धर्माद्विषमवृत्तयः 017c
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः 018a
धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु 018c
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति 019a
कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति 019c
सप्तावरे महाघोरे निरये कालसाह्वये 020a
स्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्नुते 020c
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् 021a
अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः 021c
यद्यप्याचरितः कैश्चिन्नैष धर्मः कथञ्चन 022a
अन्येषामपि दृश्यन्ते लोभतः सम्प्रवृत्तयः 022c
वश्यां कुमारीं विहितां ये च तामुपभुञ्जते 023a
एते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते 023c
अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः 024a
अधर्ममूलैर्हि धनैर्न तैरर्थोऽस्ति कश्चन 024c