युधिष्ठिर उवाच 001
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च 001a
पितृदेवातिथीनां च तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः 002a
कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप 002c
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च 003a
अद्भिरेव प्रदातव्या कन्या गुणवते वरे 003c
ब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर 003e
आवाह्यमावहेदेवं यो दद्यादनुकूलतः 004a
शिष्टानां क्षत्रियाणां च धर्म एष सनातनः 004c
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः 005a
अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर 005c
गान्धर्वमिति तं धर्मं प्राहुर्धर्मविदो जनाः 005e
धनेन बहुना क्रीत्वा सम्प्रलोभ्य च बान्धवान् 006a
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः 006c
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् 007a
प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् 007c
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर 008a
पैशाच आसुरश्चैव न कर्तव्यौ कथञ्चन 008c
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ 009a
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः 009c
तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु 010a
वैश्यः स्वजातिं विन्देत तास्वपत्यं समं भवेत् 010c
ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तु 011a
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः 011c
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः 012a
शूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते 012c
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् 013a
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् 013c
यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ 014a
नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा 014c
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती 015a
चतुर्थे त्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत् 015c
प्रजनो हीयते तस्या रतिश्च भरतर्षभ 016a
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः 016c
असपिण्डा च या मातुरसगोत्रा च या पितुः 017a
इत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत् 017c
युधिष्ठिर उवाच 018
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः 018a
बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् 018c
पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामह 019a
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् 019c
भीष्म उवाच 020
यत्किञ्चित्कर्म मानुष्यं संस्थानाय प्रकृष्यते 020a
मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः 020c
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च 021a
मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः 021c
न ह्यकामेन संवादं मनुरेवं प्रशंसति 022a
अयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम् 022c
नैकान्तदोष एकस्मिंस्तद्दानं नोपलभ्यते 023a
धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत 023c
बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत् 024a
तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन 024c
यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतः 025a
तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः 025c
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् 026a
सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति 026c
युधिष्ठिर उवाच 027
कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरः 027a
धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा 027c
तस्मिन्नुभयतो दोषे कुर्वञ्छ्रेयः समाचरेत् 028a
अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः 028c
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् 029a
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् 029c
भीष्म उवाच 030
न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम् 030a
न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् 030c
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः 031a
अलङ्कृत्वा वहस्वेति यो दद्यादनुकूलतः 031c
तच्च तां च ददात्येव न शुल्कं विक्रयो न सः 032a
प्रतिगृह्य भवेद्देयमेष धर्मः सनातनः 032c
दास्यामि भवते कन्यामिति पूर्वं नभाषितम् 033a
ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत 033c
तस्मादा ग्रहणात्पाणेर्याचयन्ति परस्परम् 034a
कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् 034c
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् 035a
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः 035c
समीक्ष्य च बहून्दोषान्संवासाद्विद्विषाणयोः 036a
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु 036c
अहं विचित्रवीर्याय द्वे कन्ये समुदावहम् 037a
जित्वा च मागधान्सर्वान्काशीनथ च कोसलान् 037c
गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत् 037e
पाणौ गृहीता तत्रैव विसृज्या इति मे पिता 038a
अब्रवीदितरां कन्यामावहत्स तु कौरवः 038c
अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचः 039a
अतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत् 039c
ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः 040a
आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः 040c
ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः 041a
पिता मम महाराज बाह्लीको वाक्यमब्रवीत् 041c
यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथा 042a
लाजान्तरमुपासीत प्राप्तशुल्का पतिं वृतम् 042c
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् 043a
येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा 043c
प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः 044a
ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः 044c
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा 045a
न ह्येव भार्या क्रेतव्या न विक्रेया कथञ्चन 045c
ये च क्रीणन्ति दासीवद्ये च विक्रीणते जनाः 046a
भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् 046c
अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः 047a
कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः 047c
पाणिग्रहीता चान्यः स्यादत्र नो धर्मसंशयः 048a
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसम्मतः 048c
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् 048e
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत् 049a
यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा 049c
कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः 049e
देवरं प्रविशेत्कन्या तप्येद्वापि महत्तपः 050a
तमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा 050c
लिखन्त्येव तु केषाञ्चिदपरेषां शनैरपि 051a
इति ये संवदन्त्यत्र त एतं निश्चयं विदुः 051c
तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्तते 052a
सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः 052c
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे 053a
पाणिग्राहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते 053c
अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम् 054a
परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः 054c