भीष्म उवाच 001
तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् 001a
देवशर्मा महातेजा यत्तच्छृणु नराधिप 001c
देवशर्मोवाच 002
किं ते विपुल दृष्टं वै तस्मिन्नद्य महावने 002a
ते त्वा जानन्ति निपुण आत्मा च रुचिरेव च 002c
विपुल उवाच 003
ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो 003a
ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि 003c
देवशर्मोवाच 004
यद्वै तन्मिथुनं ब्रह्मन्नहोरात्रं हि विद्धि तत् 004a
चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम् 004c
ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत् 005a
ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम् 005c
न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत् 006a
नरो रहसि पापात्मा पापकं कर्म वै द्विज 006c
कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा 007a
पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत 007c
ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् 008a
स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान् 008c
अहोरात्रं विजानाति ऋतवश्चापि नित्यशः 009a
पुरुषे पापकं कर्म शुभं वा शुभकर्मणः 009c
तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम् 010a
नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज 010c
ते चैव हि भवेयुस्ते लोकाः पापकृतो यथा 011a
कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् 011c
तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज 012a
न च त्वं कृतवान्किञ्चिदागः प्रीतोऽस्मि तेन ते 012c
यदि त्वहं त्वा दुर्वृत्तमद्राक्षं द्विजसत्तम 013a
शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा 013c
सज्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः 014a
अन्यथा रक्षतः शापोऽभविष्यत्ते गतिश्च सा 014c
रक्षिता सा त्वया पुत्र मम चापि निवेदिता 015a
अहं ते प्रीतिमांस्तात स्वस्ति स्वर्गं गमिष्यसि 015c
भीष्म उवाच 016
इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः 016a
मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः 016c
इदमाख्यातवांश्चापि ममाख्यानं महामुनिः 017a
मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे 017c
तस्माद्ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च 018a
उभयं दृश्यते तासु सततं साध्वसाधु च 018c
स्त्रियः साध्व्यो महाभागाः सम्मता लोकमातरः 019a
धारयन्ति महीं राजन्निमां सवनकाननाम् 019c
असाध्व्यश्चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः 020a
विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप 020c
एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः 021a
अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः 021c
एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः 022a
नासामस्ति प्रियो नाम मैथुने सङ्गमे नृभिः 022c
एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ 023a
न चैकस्मिन्रमन्त्येताः पुरुषे पाण्डुनन्दन 023c
नासु स्नेहो नृभिः कार्यस्तथैवेर्ष्या जनेश्वर 024a
खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि 024c
विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन 025a
सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते 025c
तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः 026a
नान्यः शक्तो नृलोकेऽस्मिन्रक्षितुं नृप योषितः 026c