भीष्म उवाच 001
विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः 001a
तपोयुक्तमथात्मानममन्यत च वीर्यवान् 001c
स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते 002a
चचार गतभीः प्रीतो लब्धकीर्तिर्वरो नृषु 002c
उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः 003a
कर्मणा तेन कौरव्य तपसा विपुलेन च 003c
अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन 004a
रुच्या भगिन्या दानं वै बभूव धनधान्यवत् 004c
एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना 005a
बिभ्रती परमं रूपं जगामाथ विहायसा 005c
तस्याः शरीरात्पुष्पाणि पतितानि महीतले 006a
तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत 006c
तान्यगृह्णात्ततो राजन्रुचिर्नलिनलोचना 007a
तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत् 007c
तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती 008a
भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै 008c
पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी 009a
आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहान् 009c
पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना 010a
भगिनीं चोदयामास पुष्पार्थे चारुलोचना 010c
सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना 011a
भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत 011c
ततो विपुलमानाय्य देवशर्मा महातपाः 012a
पुष्पार्थे चोदयामास गच्छ गच्छेति भारत 012c
विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः 013a
स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह 013c
यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् 014a
अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि 014c
ततः स तानि जग्राह दिव्यानि रुचिराणि च 015a
प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत 015c
सम्प्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः 016a
ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम् 016c
स वने विजने तात ददर्श मिथुनं नृणाम् 017a
चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम् 017c
तत्रैकस्तूर्णमगमत्तत्पदे परिवर्तयन् 018a
एकस्तु न तथा राजंश्चक्रतुः कलहं ततः 018c
त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथापरः 019a
नेति नेति च तौ तात परस्परमथोचतुः 019c
तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा 020a
मनसोद्दिश्य विपुलं ततो वाक्यमथोचतुः 020c
आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै 021a
विपुलस्य परे लोके या गतिः सा भवेदिति 021c
एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् 022a
एवं तीव्रतपाश्चाहं कष्टश्चायं परिग्रहः 022c
मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः 023a
अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै 023c
एवं सञ्चिन्तयन्नेव विपुलो राजसत्तम 024a
अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः 024c
ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः 025a
अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा 025c
कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै 026a
विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन् 026c
यो लोभमास्थायास्माकं विषमं कर्तुमुत्सहेत् 027a
विपुलस्य परे लोके या गतिस्तामवाप्नुयात् 027c
एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसङ्करम् 028a
जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः 028c
स प्रदध्यौ तदा राजन्नग्नावग्निरिवाहितः 029a
दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् 029c
तस्य चिन्तयतस्तात बह्व्यो दिननिशा ययुः 030a
इदमासीन्मनसि च रुच्या रक्षणकारितम् 030c
लक्षणं लक्षणेनैव वदनं वदनेन च 031a
विधाय न मया चोक्तं सत्यमेतद्गुरोस्तदा 031c
एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा 032a
अमन्यत महाभाग तथा तच्च न संशयः 032c
स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ 033a
पूजयामास च गुरुं विधिवत्स गुरुप्रियः 033c