भीष्म उवाच 001
ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः 001a
इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम् 001c
रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप 002a
दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् 002c
स ददर्श तमासीनं विपुलस्य कलेवरम् 003a
निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा 003c
रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् 004a
पद्मपत्रविशालाक्षीं सम्पूर्णेन्दुनिभाननाम् 004c
सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह 005a
रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती 005c
उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा 006a
निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् 006c
तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना 007a
त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते 007c
क्लिश्यमानमनङ्गेन त्वत्सङ्कल्पोद्भवेन वै 008a
तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते 008c
तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः 009a
गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् 009c
न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता 010a
वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा 010c
आकारं गुरुपत्न्यास्तु विज्ञाय स भृगूद्वहः 011a
निजग्राह महातेजा योगेन बलवत्प्रभो 011c
बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः 011e
तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः 012a
उवाच व्रीडितो राजंस्तां योगबलमोहिताम् 012c
एह्येहीति ततः सा तं प्रतिवक्तुमियेष च 013a
स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत् 013c
भोः किमागमने कृत्यमिति तस्याश्च निःसृता 014a
वक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूषिता 014c
व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा 015a
पुरन्दरश्च सन्त्रस्तो बभूव विमनास्तदा 015c
स तद्वैकृतमालक्ष्य देवराजो विशां पते 016a
अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा 016c
ददर्श च मुनिं तस्याः शरीरान्तरगोचरम् 017a
प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् 017c
स तं घोरेण तपसा युक्तं दृष्ट्वा पुरन्दरः 018a
प्रावेपत सुसन्त्रस्तः शापभीतस्तदा विभो 018c
विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः 019a
स्वं कलेवरमाविश्य शक्रं भीतमथाब्रवीत् 019c
अजितेन्द्रिय पापात्मन्कामात्मक पुरन्दर 020a
न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा 020c
किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् 021a
गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः 021c
जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् 022a
मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् 022c
नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा 023a
कृपायमाणस्तु न ते दग्धुमिच्छामि वासव 023c
स च घोरतपा धीमान्गुरुर्मे पापचेतसम् 024a
दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा 024c
नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः 025a
मा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः 025c
अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसे 026a
मावमंस्था न तपसामसाध्यं नाम किञ्चन 026c
तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः 027a
अकिञ्चिदुक्त्वा व्रीडितस्तत्रैवान्तरधीयत 027c
मुहूर्तयाते शक्रे तु देवशर्मा महातपाः 028a
कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् 028c
आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् 029a
रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम् 029c
अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः 030a
विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः 030c
विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया 031a
निवेदयामास तदा विपुलः शक्रकर्म तत् 031c
तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान् 032a
बभूव शीलवृत्ताभ्यां तपसा नियमेन च 032c
विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि च प्रभुः 033a
धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह 033c
प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् 034a
वरेण च्छन्दयामास स तस्माद्गुरुवत्सलः 034c
अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः 034e
तथैव देवशर्मापि सभार्यः स महातपाः 035a
निर्भयो बलवृत्रघ्नाच्चचार विजने वने 035c