भीष्म उवाच 001
एवमेतन्महाबाहो नात्र मिथ्यास्ति किञ्चन 001a
यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप 001c
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 002a
यथा रक्षा कृता पूर्वं विपुलेन महात्मना 002c
प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ 003a
यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप 003c
न हि स्त्रीभ्य परं पुत्र पापीयः किञ्चिदस्ति वै 004a
अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो 004c
क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः 004e
इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम् 005a
स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् 005c
अथाभ्यगच्छन्देवास्ते पितामहमरिन्दम 006a
निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः 006c
तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः 007a
मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः 007c
पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् 008a
असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः 008c
ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः 009a
ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा 009c
क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः 010a
असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः 010c
न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः 011a
निरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः 011c
शय्यासनमलङ्कारमन्नपानमनार्यताम् 012a
दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः 012c
न तासां रक्षणं कर्तुं शक्यं पुंसा कथञ्चन 013a
अपि विश्वकृता तात कुतस्तु पुरुषैरिह 013c
वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा 014a
न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः 014c
इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम् 015a
यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः 015c
ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः 016a
तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि 016c
तस्य रूपेण सम्मत्ता देवगन्धर्वदानवाः 017a
विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः 017c
नारीणां चरितज्ञश्च देवशर्मा महामुनिः 018a
यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत 018c
पुरन्दरं च जानीते परस्त्रीकामचारिणम् 019a
तस्माद्यत्नेन भार्याया रक्षणं स चकार ह 019c
स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा 020a
भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत् 020c
रक्षाविधानं मनसा स विचिन्त्य महातपाः 021a
आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् 021c
यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः 022a
पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् 022c
अप्रमत्तेन ते भाव्यं सदा प्रति पुरन्दरम् 023a
स हि रूपाणि कुरुते विविधानि भृगूद्वह 023c
इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः 024a
सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः 024c
धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत 025a
पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम् 025c
कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने 026a
वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि 026c
ततः स भगवांस्तस्मै विपुलाय महात्मने 027a
आचचक्षे यथातत्त्वं मायां शक्रस्य भारत 027c
बहुमायः स विप्रर्षे बलहा पाकशासनः 028a
तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः 028c
किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः 029a
भवत्यथ मुहूर्तेन चण्डालसमदर्शनः 029c
शिखी जटी चीरवासाः पुनर्भवति पुत्रक 030a
बृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः 030c
गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः 031a
विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च 031c
प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च 032a
ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च 032c
प्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः 032e
शुकवायसरूपी च हंसकोकिलरूपवान् 033a
सिंहव्याघ्रगजानां च रूपं धारयते पुनः 033c
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च 034a
सुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा 034c
चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः 035a
मक्षिकामशकादीनां वपुर्धारयतेऽपि च 035c
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित् 036a
अपि विश्वकृता तात येन सृष्टमिदं जगत् 036c
पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा 037a
वायुभूतश्च स पुनर्देवराजो भवत्युत 037c
एवं रूपाणि सततं कुरुते पाकशासनः 038a
तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम् 038c
यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तम 039a
क्रतावुपहितं न्यस्तं हविः श्वेव दुरात्मवान् 039c
एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा 040a
देवशर्मा महाभागस्ततो भरतसत्तम 040c
विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत् 041a
रक्षां च परमां चक्रे देवराजान्महाबलात् 041c
किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे 042a
मायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान् 042c
नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः 043a
उटजं वा तथा ह्यस्य नानाविधसरूपता 043c
वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् 044a
तस्मादिमां सम्प्रविश्य रुचिं स्थास्येऽहमद्य वै 044c
अथ वा पौरुषेणेयमशक्या रक्षितुं मया 045a
बहुरूपो हि भगवाञ्छ्रूयते हरिवाहनः 045c
सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात् 046a
गात्राणि गात्रैरस्याहं सम्प्रवेक्ष्येऽभिरक्षितुम् 046c
यद्युच्छिष्टामिमां पत्नीं रुचिं पश्येत मे गुरुः 047a
शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः 047c
न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः 048a
मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम् 048c
अवश्यकरणीयं हि गुरोरिह हि शासनम् 049a
यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया 049c
योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम् 050a
निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम 050c
यथा हि शून्यां पथिकः सभामध्यावसेत्पथि 051a
तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् 051c
असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः 052a
एवमेव शरीरेऽस्या निवत्स्यामि समाहितः 052c
इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः 053a
तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च 053c
इति निश्चित्य मनसा रक्षां प्रति स भार्गवः 054a
आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव 054c
गुरुपत्नीमुपासीनो विपुलः स महातपाः 055a
उपासीनामनिन्द्याङ्गीं कथाभिः समलोभयत् 055c
नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः 056a
विवेश विपुलः कायमाकाशं पवनो यथा 056c
लक्षणं लक्षणेनैव वदनं वदनेन च 057a
अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः 057c
ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम् 058a
उवास रक्षणे युक्तो न च सा तमबुध्यत 058c
यं कालं नागतो राजन्गुरुस्तस्य महात्मनः 059a
क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत 059c