युधिष्ठिर उवाच 001
इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः 001a
मोहेन परमाविष्टा दैवादिष्टेन पार्थिव 001c
स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् 001e
अत्र मे संशयस्तीव्रो हृदि सम्परिवर्तते 002a
कथमासां नराः सङ्गं कुर्वते कुरुनन्दन 002c
स्त्रियो वा तेषु रज्यन्ते विरज्यन्तेऽथ वा पुनः 002e
इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम् 003a
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि 003c
एता हि मयमायाभिर्वञ्चयन्तीह मानवान् 004a
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः 004c
गावो नवतृणानीव गृह्णन्त्येव नवान्नवान् 004e
शम्बरस्य च या माया या माया नमुचेरपि 005a
बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः 005c
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च 006a
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः 006c
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः 007a
स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः 007c
अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् 008a
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह 008c
स्त्रीणां बुद्ध्युपनिष्कर्षादर्थशास्त्राणि शत्रुहन् 009a
बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै 009c
सम्पूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु 010a
अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः 010c
कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान् 011a
तन्मे ब्रूहि महाबाहो कुरूणां वंशवर्धन 011c
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथञ्चन 012a
कर्तुं वा कृतपूर्वा वा तन्मे व्याख्यातुमर्हसि 012c