युधिष्ठिर उवाच 001
स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम 001a
स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
नारदस्य च संवादं पुंश्चल्या पञ्चचूडया 002c
लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा 003a
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् 003c
तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः 004a
संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे 004c
एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम् 005a
विषये सति वक्ष्यामि समर्थां मन्यसे च माम् 005c
नारद उवाच 006
न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन 006a
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने 006c
भीष्म उवाच 007
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा 007a
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः 007c
विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः 008a
न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे 008c
तामुवाच स देवर्षिः सत्यं वद सुमध्यमे 009a
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते 009c
इत्युक्ता सा कृतमतिरभवच्चारुहासिनी 010a
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं सम्प्रचक्रमे 010c
पञ्चचूडोवाच 011
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः 011a
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद 011c
न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै 012a
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह 012c
समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् 013a
पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् 013c
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो 014a
पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे 014c
स्त्रियं हि यः प्रार्थयते सन्निकर्षं च गच्छति 015a
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः 015c
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च 016a
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु 016c
नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः 017a
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते 017c
न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन 018a
न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु 018c
यौवने वर्तमानानां मृष्टाभरणवाससाम् 019a
नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः 019c
याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः 020a
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः 020c
पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः 021a
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने 021c
यदि पुंसां गतिर्ब्रह्म कथञ्चिन्नोपपद्यते 022a
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु 022c
अलाभात्पुरुषाणां हि भयात्परिजनस्य च 023a
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः 023c
चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा 024a
प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः 024c
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः 025a
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः 025c
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् 026a
दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः 026c
कामानामपि दातारं कर्तारं मानसान्त्वयोः 027a
रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः 027c
न कामभोगान्बहुलान्नालङ्कारार्थसञ्चयान् 028a
तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम् 028c
अन्तकः शमनो मृत्युः पातालं वडवामुखम् 029a
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः 029c
यतश्च भूतानि महान्ति पञ्च यतश्च लोका विहिता विधात्रा 030a
यतः पुमांसः प्रमदाश्च निर्मितास्तदैव दोषाः प्रमदासु नारद 030c