युधिष्ठिर उवाच 001
अपूर्वं वा भवेत्पात्रमथ वापि चिरोषितम् 001a
दूरादभ्यागतं वापि किं पात्रं स्यात्पितामह 001c
भीष्म उवाच 002
क्रिया भवति केषाञ्चिदुपांशुव्रतमुत्तमम् 002a
यो यो याचेत यत्किञ्चित्सर्वं दद्याम इत्युत 002c
अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम 003a
पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति 003c
अपूर्वं वापि यत्पात्रं यच्चापि स्याच्चिरोषितम् 004a
दूरादभ्यागतं चापि तत्पात्रं च विदुर्बुधाः 004c
युधिष्ठिर उवाच 005
अपीडया च भृत्यानां धर्मस्याहिंसया तथा 005a
पात्रं विद्याम तत्त्वेन यस्मै दत्तं न सन्तपेत् 005c
भीष्म उवाच 006
ऋत्विक्पुरोहिताचार्याः शिष्याः सम्बन्धिबान्धवाः 006a
सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः 006c
अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् 007a
तस्मान्नित्यं परीक्षेत पुरुषान्प्रणिधाय वै 007c
अक्रोधः सत्यवचनमहिंसा दम आर्जवम् 008a
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा तपः शमः 008c
यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारत 009a
भावतो विनिविष्टानि तत्पात्रं मानमर्हति 009c
तथा चिरोषितं चापि सम्प्रत्यागतमेव च 010a
अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति 010c
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् 011a
सर्वत्र चानवस्थानमेतन्नाशनमात्मनः 011c
भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः 012a
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् 012c
हेतुवादान्ब्रुवन्सत्सु विजेताहेतुवादिकः 013a
आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि 013c
सर्वाभिशङ्की मूढश्च बालः कटुकवागपि 014a
बोद्धव्यस्तादृशस्तात नरश्वानं हि तं विदुः 014c
यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यते 015a
एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च 015c
अल्पश्रुताः कुतर्काश्च दृष्टाः स्पृष्टाः कुपण्डिताः 015e
श्रुतिस्मृतीतिहासादिपुराणारण्यवेदिनः 016a
अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञांश्चैव पण्डितान् 016c
लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च 017a
एवं नरो वर्तमानः शाश्वतीरेधते समाः 017c
ऋणमुन्मुच्य देवानामृषीणां च तथैव च 018a
पितॄणामथ विप्राणामतिथीनां च पञ्चमम् 018c
पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा 019a
एवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते 019c