भीष्म उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर 001c
शक्रो ह्यज्ञातरूपेण जटी भूत्वा रजोरुणः 002a
विरूपं रूपमास्थाय प्रश्नं पप्रच्छ शम्बरम् 002c
केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि 003a
श्रेष्ठं त्वां केन मन्यन्ते तन्मे प्रब्रूहि पृच्छतः 003c
शम्बर उवाच 004
नासूयामि सदा विप्रान्ब्रह्माणं च पितामहम् 004a
शास्त्राणि वदतो विप्रान्सम्मन्यामि यथासुखम् 004c
श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् 005a
अभ्यर्च्याननुपृच्छामि पादौ गृह्णामि धीमताम् 005c
ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा 006a
प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि 006c
ते मा शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् 007a
समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः 007c
यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्णामि मेधया 008a
समाधिमात्मनो नित्यमनुलोममचिन्तयन् 008c
सोऽहं वागग्रसृष्टानां रसानामवलेहकः 009a
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः 009c
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् 010a
यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते 010c
एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा 011a
युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत 011c
दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् 012a
पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम् 012c
सोम उवाच 013
ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा 013a
भुजवीर्या हि राजानो वागस्त्राश्च द्विजातयः 013c
प्रवसन्वाप्यधीयीत बह्वीर्दुर्वसतीर्वसन् 014a
निर्मन्युरपि निर्मानो यतिः स्यात्समदर्शनः 014c
अपि चेज्जातिसम्पन्नः सर्वान्वेदान्पितुर्गृहे 015a
श्लाघमान इवाधीयेद्ग्राम्य इत्येव तं विदुः 015c
भूमिरेतौ निगिरति सर्पो बिलशयानिव 016a
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् 016c
अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः 017a
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः 017c
इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् 018a
ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् 018c
भीष्म उवाच 019
श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् 019a
द्विजान्सम्पूजयामास महेन्द्रत्वमवाप च 019c