भीष्म उवाच 001
जन्मनैव महाभागो ब्राह्मणो नाम जायते 001a
नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक् 001c
सर्वान्नः सुहृदस्तात ब्राह्मणाः सुमनोमुखाः 002a
गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः 002c
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः 003a
गीर्भिर्दारुणयुक्ताभिरभिहन्युरपूजिताः 003c
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः 004a
सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् 004c
न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वं यथाविधि 005a
गुप्ता गोपायत ब्रह्म श्रेयो वस्तेन शोभनम् 005c
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति 006a
प्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ 006c
न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता 007a
शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते 007c
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी 008a
स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ 008c
हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः 009a
अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः 009c
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया 010a
दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ 010c
यच्चैव मानुषे लोके यच्च देवेषु किञ्चन 011a
सर्वं तत्तपसा साध्यं ज्ञानेन विनयेन च 011c
इत्येता ब्रह्मगीतास्ते समाख्याता मयानघ 012a
विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता 012c
भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः 013a
दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः 013c
सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे 014a
वराहमृगसत्त्वाश्च गजसत्त्वास्तथापरे 014c
कर्पासमृदवः केचित्तथान्ये मकरस्पृशः 015a
विभाष्यघातिनः केचित्तथा चक्षुर्हणोऽपरे 015c
सन्ति चाशीविषनिभाः सन्ति मन्दास्तथापरे 016a
विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर 016c
मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास्तथा 017a
शौण्डिका दरदा दर्वाश्चौराः शबरबर्बराः 017c
किराता यवनाश्चैव तास्ताः क्षत्रियजातयः 018a
वृषलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् 018c
ब्राह्मणानां परिभवादसुराः सलिलेशयाः 019a
ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः 019c
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः 020a
अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि 020c
न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा 021a
ब्राह्मणा हि महात्मानो देवानामपि देवताः 021c
तान्पूजयस्व सततं दानेन परिचर्यया 022a
यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् 022c
प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ 023a
प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयानघ 023c