भीष्म उवाच 001
ब्राह्मणानेव सततं भृशं सम्प्रतिपूजयेत् 001a
एते हि सोमराजान ईश्वराः सुखदुःखयोः 001c
एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः 002a
सदा पूज्या नमस्कार्या रक्ष्याश्च पितृवन्नृपैः 002c
अतो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात् 002e
जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः 003a
महारथश्च राजन्य एष्टव्यः शत्रुतापनः 003c
ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम् 004a
वासयेत गृहे राजन्न तस्मात्परमस्ति वै 004c
ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः 005a
पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् 005c
आदित्यश्चन्द्रमा वायुर्भूमिरापोऽम्बरं दिशः 006a
सर्वे ब्राह्मणमाविश्य सदान्नमुपभुञ्जते 006c
न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते 007a
देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः 007c
ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा 008a
तथैव देवता राजन्नात्र कार्या विचारणा 008c
तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः 009a
न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम् 009c
येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः 010a
तेन तेनैव प्रीयन्ते पितरो देवतास्तथा 010c
ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः 011a
यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति 011c
वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च 012a
आगतानागते चोभे ब्राह्मणो द्विपदां वरः 012c
ब्राह्मणो भरतश्रेष्ठ स्वधर्मं वेद मेधया 012e
ये चैनमनुवर्तन्ते ते न यान्ति पराभवम् 013a
न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् 013c
ये ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः 014a
कृतात्मानो महात्मानस्ते न यान्ति पराभवम् 014c
क्षत्रियाणां प्रतपतां तेजसा च बलेन च 015a
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च 015c
भृगवोऽजयंस्तालजङ्घान्नीपानङ्गिरसोऽजयन् 016a
भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ 016c
चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः 017a
प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् 017c
यत्किञ्चित्कथ्यते लोके श्रूयते पश्यतेऽपि वा 018a
सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु 018c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 019a
संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ 019c
वासुदेव उवाच 020
मातरं सर्वभूतानां पृच्छे त्वा संशयं शुभे 020a
केन स्वित्कर्मणा पापं व्यपोहति नरो गृही 020c
पृथिव्युवाच 021
ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम् 021a
ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति 021c
अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते 022a
अपरेषां परेषां च परेभ्यश्चैव ये परे 022c
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते 023a
अथ यो ब्राह्मणाक्रुष्टः पराभवति सोऽचिरात् 023c
यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति 024a
तथा दुश्चरितं कर्म पराभावाय कल्पते 024c
पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम् 025a
तथा भगसहस्रेण महेन्द्रं परिचिह्नितम् 025c
तेषामेव प्रभावेन सहस्रनयनो ह्यसौ 026a
शतक्रतुः समभवत्पश्य माधव यादृशम् 026c
इच्छन्भूतिं च कीर्तिं च लोकांश्च मधुसूदन 027a
ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् 027c
इत्येतद्वचनं श्रुत्वा मेदिन्या मधुसूदनः 028a
साधु साध्वित्यथेत्युक्त्वा मेदिनीं प्रत्यपूजयत् 028c
एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् 029a
सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे 029c