युधिष्ठिर उवाच 001
किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह 001a
किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते 001c
भीष्म उवाच 002
एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत 002a
ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता 002c
श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् 002e
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् 003a
सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत् 003c
एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत् 004a
यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत् 004c
ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् 005a
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते 005c
ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा 006a
तेष्वेव यात्रा लोकस्य भूतानामिव वासवे 006c
अभिचारैरुपायैश्च दहेयुरपि तेजसा 007a
निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः 007c
नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः 008a
कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव 008c
विद्यन्तेषां साहसिका गुणास्तेषामतीव हि 009a
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे 009c
प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे 010a
सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः 010c
कृषिगोरक्ष्यमप्यन्ये भैक्षमन्येऽप्यनुष्ठिताः 011a
चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः 011c
सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च 012a
विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ 012c
नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम् 013a
धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत् 013c
पितॄणां देवतानां च मनुष्योरगरक्षसाम् 014a
पुरोहिता महाभागा ब्राह्मणा वै नराधिप 014c
नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः 015a
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः 015c
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् 016a
यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत् 016c
परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः 017a
निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः 017c
परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः 017e
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते 018a
ब्राह्मणैर्यः पराक्रुष्टः पराभूयात्क्षणाद्धि सः 018c
शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः 019a
वृषलत्वं परिगता ब्राह्मणानामदर्शनात् 019c
द्रमिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः 020a
कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः 020c
वृषलत्वं परिगता ब्राह्मणानामदर्शनात् 021a
श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर 021c
यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम् 022a
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः 022c
परिवादो द्विजातीनां न श्रोतव्यः कथञ्चन 023a
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा 023c
न स जातो जनिष्यो वा पृथिव्यामिह कश्चन 024a
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् 024c
दुर्ग्रहो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी 025a
दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि 025c