युधिष्ठिर उवाच 001
के पूज्याः के नमस्कार्या मानवैर्भरतर्षभ 001a
विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम् 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
नारदस्य च संवादं वासुदेवस्य चोभयोः 002c
नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् 003a
केशवः परिपप्रच्छ भगवन्कान्नमस्यसि 003c
बहुमानः परः केषु भवतो यान्नमस्यसि 004a
शक्यं चेच्छ्रोतुमिच्छामि ब्रूह्येतद्धर्मवित्तम 004c
नारद उवाच 005
शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन 005a
त्वत्तोऽन्यः कः पुमाल्ँलोके श्रोतुमेतदिहार्हति 005c
वरुणं वायुमादित्यं पर्जन्यं जातवेदसम् 006a
स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणमेव च 006c
वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम् 007a
सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो 007c
तपोधनान्वेदविदो नित्यं वेदपरायणान् 008a
महार्हान्वृष्णिशार्दूल सदा सम्पूजयाम्यहम् 008c
अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः 009a
सन्तुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो 009c
सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाः 010a
सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव 010c
ये ते तपसि वर्तन्ते वने मूलफलाशनाः 011a
असञ्चयाः क्रियावन्तस्तान्नमस्यामि यादव 011c
ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः 012a
भुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव 012c
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः 013a
याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् 013c
प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः 014a
आ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम् 014c
गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः 015a
शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव 015c
सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसङ्गराः 016a
वोढारो हव्यकव्यानां तान्नमस्यामि यादव 016c
भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः 017a
निःसुखा निर्धना ये च तान्नमस्यामि यादव 017c
निर्ममा निष्प्रतिद्वन्द्वा निर्ह्रीका निष्प्रयोजनाः 018a
अहिंसानिरता ये च ये च सत्यव्रता नराः 018c
दान्ताः शमपराश्चैव तान्नमस्यामि केशव 018e
देवतातिथिपूजायां प्रसक्ता गृहमेधिनः 019a
कपोतवृत्तयो नित्यं तान्नमस्यामि यादव 019c
येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते 020a
शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा 020c
ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताः 021a
अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव 021c
अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा 022a
व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव 022c
अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च 023a
सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान् 023c
नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन् 024a
लोकज्येष्ठाञ्ज्ञाननिष्ठांस्तमोघ्नाल्ँलोकभास्करान् 024c
तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा 025a
पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ 025c
अस्मिल्ँलोके सदा ह्येते परत्र च सुखप्रदाः 026a
त एते मान्यमाना वै प्रदास्यन्ति सुखं तव 026c
ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च 027a
नित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते 027c
नित्यं शमपरा ये च तथा ये चानसूयकाः 028a
नित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते 028c
सर्वान्देवान्नमस्यन्ति ये चैकं देवमाश्रिताः 029a
श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते 029c
तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान् 030a
भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते 030c
अग्नीनाधाय विधिवत्प्रयता धारयन्ति ये 031a
प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते 031c
मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा 032a
यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः 032c
तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन् 033a
सम्यक्पूजय येन त्वं गतिमिष्टामवाप्स्यसि 033c