युधिष्ठिर उवाच 001
श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह 001a
सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर 001c
विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत 002a
श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम 002c
वीतहव्यश्च राजर्षिः श्रुतो मे विप्रतां गतः 003a
तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो 003c
स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तम 004a
वरेण तपसा वापि तन्मे व्याख्यातुमर्हति 004c
भीष्म उवाच 005
शृणु राजन्यथा राजा वीतहव्यो महायशाः 005a
क्षत्रियः सन्पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम् 005c
मनोर्महात्मनस्तात प्रजाधर्मेण शासतः 006a
बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः 006c
तस्यान्ववाये द्वौ राजन्राजानौ सम्बभूवतुः 007a
हेहयस्तालजङ्घश्च वत्सेषु जयतां वर 007c
हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत 008a
शतं बभूव प्रख्यातं शूराणामनिवर्तिनाम् 008c
तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम् 009a
धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः 009c
काशिष्वपि नृपो राजन्दिवोदासपितामहः 010a
हर्यश्व इति विख्यातो बभूव जयतां वरः 010c
स वीतहव्यदायादैरागत्य पुरुषर्षभ 011a
गङ्गायमुनयोर्मध्ये सङ्ग्रामे विनिपातितः 011c
तं तु हत्वा नरवरं हेहयास्ते महारथाः 012a
प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः 012c
हर्यश्वस्य तु दायादः काशिराजोऽभ्यषिच्यत 013a
सुदेवो देवसङ्काशः साक्षाद्धर्म इवापरः 013c
स पालयन्नेव महीं धर्मात्मा काशिनन्दनः 014a
तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः 014c
तमप्याजौ विनिर्जित्य प्रतिजग्मुर्यथागतम् 015a
सौदेविस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत 015c
दिवोदासस्तु विज्ञाय वीर्यं तेषां महात्मनाम् 016a
वाराणसीं महातेजा निर्ममे शक्रशासनात् 016c
विप्रक्षत्रियसम्बाधां वैश्यशूद्रसमाकुलाम् 017a
नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् 017c
गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम 018a
गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम् 018c
तत्र तं राजशार्दूलं निवसन्तं महीपतिम् 019a
आगत्य हेहया भूयः पर्यधावन्त भारत 019c
स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः 020a
देवासुरसमं घोरं दिवोदासो महाद्युतिः 020c
स तु युद्धे महाराज दिनानां दशतीर्दश 021a
हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् 021c
हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः 022a
दिवोदासः पुरीं हित्वा पलायनपरोऽभवत् 022c
स त्वाश्रममुपागम्य भरद्वाजस्य धीमतः 023a
जगाम शरणं राजा कृताञ्जलिररिन्दम 023c
राजोवाच 024
भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः 024a
अहमेकः परिद्यूनो भवन्तं शरणं गतः 024c
शिष्यस्नेहेन भगवन्स मां रक्षितुमर्हसि 025a
निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः 025c
तमुवाच महाभागो भरद्वाजः प्रतापवान् 026a
न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् 026c
अहमिष्टिं करोम्यद्य पुत्रार्थं ते विशां पते 027a
वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि 027c
तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम् 028a
अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः 028c
स जातमात्रो ववृधे समाः सद्यस्त्रयोदश 029a
वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत 029c
योगेन च समाविष्टो भरद्वाजेन धीमता 030a
तेजो लौक्यं स सङ्गृह्य तस्मिन्देशे समाविशत् 030c
ततः स कवची धन्वी बाणी दीप्त इवानलः 031a
प्रययौ स धनुर्धुन्वन्विवर्षुरिव तोयदः 031c
तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ 032a
मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः 032c
ततस्तं यौवराज्येन स्थापयित्वा प्रतर्दनम् 033a
कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत 033c
ततस्तु वैतहव्यानां वधाय स महीपतिः 034a
पुत्रं प्रस्थापयामास प्रतर्दनमरिन्दमम् 034c
सरथः स तु सन्तीर्य गङ्गामाशु पराक्रमी 035a
प्रययौ वीतहव्यानां पुरीं परपुरञ्जयः 035c
वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम् 036a
निर्ययुर्नगराकारै रथैः पररथारुजैः 036c
निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः 037a
प्रतर्दनं समाजघ्नुः शरवर्षैरुदायुधाः 037c
अस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर 038a
अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः 038c
अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः 039a
जघान तान्महातेजा वज्रानलसमैः शरैः 039c
कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः 040a
अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः 040c
हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ 041a
प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत 041c
ययौ भृगुं च शरणं वीतहव्यो नराधिपः 042a
अभयं च ददौ तस्मै राज्ञे राजन्भृगुस्तथा 042c
ततो ददावासनं च तस्मै शिष्यो भृगोस्तदा 042e
अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः 043a
स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् 043c
भो भोः केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः 044a
द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति 044c
स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा 045a
पूजयामास च ततो विधिना परमेण ह 045c
उवाच चैनं राजेन्द्र किं कार्यमिति पार्थिवम् 046a
स चोवाच नृपस्तस्मै यदागमनकारणम् 046c
अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम् 047a
अस्य पुत्रैर्हि मे ब्रह्मन्कृत्स्नो वंशः प्रणाशितः 047c
उत्सादितश्च विषयः काशीनां रत्नसञ्चयः 047e
एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया 048a
अस्येदानीं वधाद्ब्रह्मन्भविष्याम्यनृणः पितुः 048c
तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः 049a
नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः 049c
एवं तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः 050a
पादावुपस्पृश्य शनैः प्रहसन्वाक्यमब्रवीत् 050c
एवमप्यस्मि भगवन्कृतकृत्यो न संशयः 051a
यदेष राजा वीर्येण स्वजातिं त्याजितो मया 051c
अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम् 052a
त्याजितो हि मया जातिमेष राजा भृगूद्वह 052c
ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः 053a
यथागतं महाराज मुक्त्वा विषमिवोरगः 053c
भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः 054a
वीतहव्यो महाराज ब्रह्मवादित्वमेव च 054c
तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः 055a
शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत् 055c
ऋग्वेदे वर्तते चाग्र्या श्रुतिरत्र विशां पते 056a
यत्र गृत्समदो ब्रह्मन्ब्राह्मणैः स महीयते 056c
स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत् 057a
पुत्रो गृत्समदस्यापि सुचेता अभवद्द्विजः 057c
वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः 058a
विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः 058c
वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः 059a
श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः 059c
तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः 060a
प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः 060c
तस्यात्मजश्च प्रमतिर्वेदवेदाङ्गपारगः 061a
घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत 061c
प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत 062a
शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः 062c
एवं विप्रत्वमगमद्वीतहव्यो नराधिपः 063a
भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ 063c
तथैव कथितो वंशो मया गार्त्समदस्तव 064a
विस्तरेण महाराज किमन्यदनुपृच्छसि 064c