भीष्म उवाच 001
एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः 001a
अतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः 001c
सुदुष्करं वहन्योगं कृशो धमनिसन्ततः 002a
त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् 002c
तं पतन्तमभिद्रुत्य परिजग्राह वासवः 003a
वराणामीश्वरो दाता सर्वभूतहिते रतः 003c
शक्र उवाच 004
मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिः 004a
पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् 004c
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः 005a
ब्राह्मणेभ्योऽनुतृप्यन्ति पितरो देवतास्तथा 005c
ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते 006a
ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति 006c
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः 007a
पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति 007c
मतङ्ग उवाच 008
किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् 008a
तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते 008c
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतो 009a
सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः 009c
यः पापेभ्यः पापतमस्तेषामधम एव सः 010a
ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम् 010c
दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् 011a
दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः 011c
एकारामो ह्यहं शक्र निर्द्वन्द्वो निष्परिग्रहः 012a
अहिंसादमदानस्थः कथं नार्हामि विप्रताम् 012c
यथाकामविहारी स्यां कामरूपी विहङ्गमः 013a
ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम् 013c
यथा ममाक्षया कीर्तिर्भवेच्चापि पुरन्दर 013e
इन्द्र उवाच 014
छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि 014a
भीष्म उवाच 015
एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत 015a
प्राणांस्त्यक्त्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम् 015c
एवमेतत्परं स्थानं ब्राह्मण्यं नाम भारत 016a
तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा 016c