भीष्म उवाच 001
एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः 001a
अतिष्ठदेकपादेन वर्षाणां शतमच्युत 001c
तमुवाच ततः शक्रः पुनरेव महायशाः 002a
मतङ्ग परमं स्थानं प्रार्थयन्नतिदुर्लभम् 002c
मा कृथाः साहसं पुत्र नैष धर्मपथस्तव 003a
अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि 003c
मतङ्ग परमं स्थानं वार्यमाणो मया सकृत् 004a
चिकीर्षस्येव तपसा सर्वथा न भविष्यसि 004c
तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति 005a
स जायते पुल्कसो वा चण्डालो वा कदाचन 005c
पुंश्चलः पापयोनिर्वा यः कश्चिदिह लक्ष्यते 006a
स तस्यामेव सुचिरं मतङ्ग परिवर्तते 006c
ततो दशगुणे काले लभते शूद्रतामपि 007a
शूद्रयोनावपि ततो बहुशः परिवर्तते 007c
ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि 008a
वैश्यतायां चिरं कालं तत्रैव परिवर्तते 008c
ततः षष्टिगुणे काले राजन्यो नाम जायते 009a
राजन्यत्वे चिरं कालं तत्रैव परिवर्तते 009c
ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् 010a
ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्तते 010c
ततस्तु द्विशते काले लभते काण्डपृष्ठताम् 011a
काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते 011c
ततस्तु त्रिशते काले लभते द्विजतामपि 012a
तां च प्राप्य चिरं कालं तत्रैव परिवर्तते 012c
ततश्चतुःशते काले श्रोत्रियो नाम जायते 013a
श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते 013c
तदैव क्रोधहर्षौ च कामद्वेषौ च पुत्रक 014a
अतिमानातिवादौ तमाविशन्ति द्विजाधमम् 014c
तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम् 015a
अथ ते वै जयन्त्येनं तालाग्रादिव पात्यते 015c
मतङ्ग सम्प्रधार्यैतद्यदहं त्वामचूचुदम् 016a
वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् 016c