युधिष्ठिर उवाच 001
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् 001a
गुणैः समुदितः सर्वैर्वयसा च समन्वितः 001c
तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर 001e
क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम 002a
ब्राह्मण्यं प्राप्नुयात्केन तन्मे व्याख्यातुमर्हसि 002c
तपसा वा सुमहता कर्मणा वा श्रुतेन वा 003a
ब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह 003c
भीष्म उवाच 004
ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः 004a
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर 004c
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः 005a
पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते 005c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 006a
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर 006c
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः 007a
मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः 007c
स यज्ञकारः कौन्तेय पित्रा सृष्टः परन्तप 008a
प्रायाद्गर्दभयुक्तेन रथेनेहाशुगामिना 008c
स बालं गर्दभं राजन्वहन्तं मातुरन्तिके 009a
निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः 009c
तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी 010a
उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति 010c
ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते 011a
आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति 011c
अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् 012a
स्वयोनिं मानयत्येष भावो भावं निगच्छति 012c
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः 013a
अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत 013c
ब्रूहि रासभि कल्याणि माता मे येन दूषिता 014a
कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे 014c
केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत् 015a
तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः 015c
गर्दभ्युवाच 016
ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह 016a
जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् 016c
एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रति 017a
तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् 017c
मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि 018a
कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव 018c
मतङ्ग उवाच 019
अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत् 019a
कुशलं तु कुतस्तस्य यस्येयं जननी पितः 019c
ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम् 020a
अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् 020c
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः 021a
ततो गत्वा महारण्यमतप्यत महत्तपः 021c
ततः सन्तापयामास विबुधांस्तपसान्वितः 022a
मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि 022c
तं तथा तपसा युक्तमुवाच हरिवाहनः 023a
मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् 023c
वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि 024a
यच्चाप्यवाप्यमन्यत्ते सर्वं प्रब्रूहि माचिरम् 024c
मतङ्ग उवाच 025
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः 025a
गच्छेयं तदवाप्येह वर एष वृतो मया 025c
एतच्छ्रुत्वा तु वचनं तमुवाच पुरन्दरः 026a
ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः 026c
श्रेष्ठं यत्सर्वभूतेषु तपो यन्नातिवर्तते 027a
तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि 027c
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् 028a
चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन 028c