वैशम्पायन उवाच 001
बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् 001a
पराक्रमे शक्रसममादित्यसमतेजसम् 001c
गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम् 002a
भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः 002c
शयानं वीरशयने कालाकाङ्क्षिणमच्युतम् 003a
आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः 003c
अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः 004a
अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वायुरात्मवान् 004c
विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः 005a
उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः 005c
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः 006a
भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा 006c
स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः 007a
नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः 007c
नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः 008a
जामदग्न्यस्तथा रामः काम्यश्चेत्येवमादयः 008c
समागता महात्मानो भीष्मं द्रष्टुं महर्षयः 008e
तेषां महात्मनां पूजामागतानां युधिष्ठिरः 009a
भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः 009c
ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः 010a
भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः 010c
भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् 011a
मेने दिविस्थमात्मानं तुष्ट्या परमया युतः 011c
ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः 012a
अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् 012c
तानृषीन्सुमहाभागानन्तर्धानगतानपि 013a
पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः 013c
प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः 014a
उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः 014c
प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः 015a
प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः 015c
महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते 016a
पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः 016c
कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः 017a
धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः 017c
के देशाः के जनपदा आश्रमाः के च पर्वताः 018a
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह 018c
भीष्म उवाच 019
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 019a
शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर 019c
इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम् 020a
असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः 020c
शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः 021a
कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा 021c
तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः 022a
चक्रतुर्वेदसम्बद्धास्तच्छेषकृतलक्षणाः 022c
शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः 023a
प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि 023c
शिलवृत्तिरुवाच 024
के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः 024a
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् 024c
सिद्ध उवाच 025
ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः 025a
येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा 025c
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः 026a
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् 026c
स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् 027a
न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते 027c
सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम् 028a
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः 028c
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः 029a
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् 029c
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् 030a
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि 030c
यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति 031a
तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीयते 031c
अपहत्य तमस्तीव्रं यथा भात्युदये रविः 032a
तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः 032c
विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा 033a
तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः 033c
वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः 034a
क्रतवश्च यथासोमास्तथा गङ्गां विना जगत् 034c
यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना 035a
तथा देशा दिशश्चैव गङ्गाहीना न संशयः 035c
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते 036a
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः 036c
यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् 037a
गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते 037c
इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम् 038a
पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ 038c
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् 039a
मासमेकं तु गङ्गायां समौ स्यातां न वा समौ 039c
लम्बेतावाक्शिरा यस्तु युगानामयुतं पुमान् 040a
तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते 040c
अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम 041a
तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते 041c
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् 042a
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः 042c
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् 043a
गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते 043c
अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये 044a
तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च 044c
प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् 045a
पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् 045c
ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः 046a
येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः 046c
विनयाचारहीनाश्च अशिवाश्च नराधमाः 047a
ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः 047c
यथा सुराणाममृतं पितॄणां च यथा स्वधा 048a
सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् 048c
उपासते यथा बाला मातरं क्षुधयार्दिताः 049a
श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः 049c
स्वायम्भुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते 050a
स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते 050c
यथोपजीविनां धेनुर्देवादीनां धरा स्मृता 051a
तथोपजीविनां गङ्गा सर्वप्राणभृतामिह 051c
देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः 052a
अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः 052c
जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः 053a
मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम् 053c
जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः 054a
बिभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम् 054c
गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा 055a
स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति 055c
व्यसनैरभितप्तस्य नरस्य विनशिष्यतः 056a
गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति 056c
हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् 057a
पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् 057c
हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् 058a
गङ्गां गोकुलसम्बाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः 058c
न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः 059a
अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् 059c
वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह 060a
वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः 060c
सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे 061a
पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च 061c
श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता 062a
गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः 062c
दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् 063a
पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः 063c
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च 064a
स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा 064c
न सुतैर्न च वित्तेन कर्मणा न च तत्फलम् 065a
प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् 065c
जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च 066a
समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् 066c
भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् 067a
देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः 067c
वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः 068a
विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् 068c
उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसम्मतः 069a
चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् 069c
न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः 070a
आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह 070c
गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः 071a
दधार शिरसा देवीं तामेव दिवि सेवते 071c
अलङ्कृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः 072a
यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत् 072c
दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः 073a
देवेशश्च यथा नॄणां गङ्गेह सरितां तथा 073c
मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा 074a
न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम् 074c
नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः 075a
तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् 075c
पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति 076a
गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति 076c
तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः 077a
गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् 077c
भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि 078a
गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् 078c
त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः 079a
यत्पुत्रान्सगरस्यैषा भस्माख्याननयद्दिवम् 079c
वाय्वीरिताभिः सुमहास्वनाभिर्द्रुताभिरत्यर्थसमुच्छ्रिताभिः 080a
गङ्गोर्मिभिर्भानुमतीभिरिद्धः सहस्ररश्मिप्रतिमो विभाति 080c
पयस्विनीं घृतिनीमत्युदारां समृद्धिनीं वेगिनीं दुर्विगाह्याम् 081a
गङ्गां गत्वा यैः शरीरं विसृष्टं गता धीरास्ते विबुधैः समत्वम् 081c
अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा यशस्विनी बृहती विश्वरूपा 082a
देवैः सेन्द्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकामैर्युनक्ति 082c
ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् 083a
त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः 083c
यो वत्स्यति द्रक्ष्यति वापि मर्त्यस्तस्मै प्रयच्छन्ति सुखानि देवाः 084a
तद्भाविताः स्पर्शने दर्शने यस्तस्मै देवा गतिमिष्टां दिशन्ति 084c
दक्षां पृथ्वीं बृहतीं विप्रकृष्टां शिवामृतां सुरसां सुप्रसन्नाम् 085a
विभावरीं सर्वभूतप्रतिष्ठां गङ्गां गता ये त्रिदिवं गतास्ते 085c
ख्यातिर्यस्याः खं दिवं गां च नित्यं पुरा दिशो विदिशश्चावतस्थे 086a
तस्या जलं सेव्य सरिद्वराया मर्त्याः सर्वे कृतकृत्या भवन्ति 086c
इयं गङ्गेति नियतं प्रतिष्ठा गुहस्य रुक्मस्य च गर्भयोषा 087a
प्रातस्त्रिमार्गा घृतवहा विपाप्मा गङ्गावतीर्णा वियतो विश्वतोया 087c
सुतावनीध्रस्य हरस्य भार्या दिवो भुवश्चापि कक्ष्यानुरूपा 088a
भव्या पृथिव्या भाविनी भाति राजन्गङ्गा लोकानां पुण्यदा वै त्रयाणाम् 088c
मधुप्रवाहा घृतरागोद्धृताभिर्महोर्मिभिः शोभिता ब्राह्मणैश्च 089a
दिवश्च्युता शिरसात्ता भवेन गङ्गावनीध्रास्त्रिदिवस्य माला 089c
योनिर्वरिष्ठा विरजा वितन्वी शुष्मा इरा वारिवहा यशोदा 090a
विश्वावती चाकृतिरिष्टिरिद्धा गङ्गोक्षितानां भुवनस्य पन्थाः 090c
क्षान्त्या मह्या गोपने धारणे च दीप्त्या कृशानोस्तपनस्य चैव 091a
तुल्या गङ्गा सम्मता ब्राह्मणानां गुहस्य ब्रह्मण्यतया च नित्यम् 091c
ऋषिष्टुतां विष्णुपदीं पुराणीं सुपुण्यतोयां मनसापि लोके 092a
सर्वात्मना जाह्नवीं ये प्रपन्नास्ते ब्रह्मणः सदनं सम्प्रयाताः 092c
लोकानिमान्नयति या जननीव पुत्रान्सर्वात्मना सर्वगुणोपपन्ना 093a
स्वस्थानमिष्टमिह ब्राह्ममभीप्समानैर्गङ्गा सदैवात्मवशैरुपास्या 093c
उस्रां जुष्टां मिषतीं विश्वतोयामिरां वज्रीं रेवतीं भूधराणाम् 094a
शिष्टाश्रयाममृतां ब्रह्मकान्तां गङ्गां श्रयेदात्मवान्सिद्धिकामः 094c
प्रसाद्य देवान्सविभून्समस्तान्भगीरथस्तपसोग्रेण गङ्गाम् 095a
गामानयत्तामभिगम्य शश्वन्पुमान्भयं नेह नामुत्र विद्यात् 095c
उदाहृतः सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्य बुद्ध्या 096a
शक्तिर्न मे काचिदिहास्ति वक्तुं गुणान्सर्वान्परिमातुं तथैव 096c
मेरोः समुद्रस्य च सर्वरत्नैः सङ्ख्योपलानामुदकस्य वापि 097a
वक्तुं शक्यं नेह गङ्गाजलानां गुणाख्यानं परिमातुं तथैव 097c
तस्मादिमान्परया श्रद्धयोक्तान्गुणान्सर्वाञ्जाह्नवीजांस्तथैव 098a
भजेद्वाचा मनसा कर्मणा च भक्त्या युक्तः परया श्रद्दधानः 098c
लोकानिमांस्त्रीन्यशसा वितत्य सिद्धिं प्राप्य महतीं तां दुरापाम् 099a
गङ्गाकृतानचिरेणैव लोकान्यथेष्टमिष्टान्विचरिष्यसि त्वम् 099c
तव मम च गुणैर्महानुभावा जुषतु मतिं सततं स्वधर्मयुक्तैः 100a
अभिगतजनवत्सला हि गङ्गा भजति युनक्ति सुखैश्च भक्तिमन्तम् 100c
भीष्म उवाच 101
इति परममतिर्गुणाननेकाञ्शिलरतये त्रिपथानुयोगरूपान् 101a
बहुविधमनुशास्य तथ्यरूपान्गगनतलं द्युतिमान्विवेश सिद्धः 101c
शिलवृत्तिस्तु सिद्धस्य वाक्यैः सम्बोधितस्तदा 102a
गङ्गामुपास्य विधिवत्सिद्धिं प्राप्तः सुदुर्लभाम् 102c
तस्मात्त्वमपि कौन्तेय भक्त्या परमया युतः 103a
गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् 103c
वैशम्पायन उवाच 104
श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् 104a
युधिष्ठिरः परां प्रीतिमगच्छद्भ्रातृभिः सह 104c
इतिहासमिमं पुण्यं शृणुयाद्यः पठेत वा 105a
गङ्गायाः स्तवसंयुक्तं स मुच्येत्सर्वकिल्बिषैः 105c