युधिष्ठिर उवाच 001
तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ 001a
श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः 001c
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ 002a
वक्तुमर्हसि मे तानि श्रोतास्मि नियतः प्रभो 002c
भीष्म उवाच 003
इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते 003a
श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् 003c
तपोवनगतं विप्रमभिगम्य महामुनिम् 004a
पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः 004c
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः 005a
तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने 005c
उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने 006a
प्रेत्यभावे महाप्राज्ञ तद्यथास्ति तथा वद 006c
अङ्गिरा उवाच 007
सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् 007a
विगाह्य वै निराहारो निर्ममो मुनिवद्भवेत् 007c
काश्मीरमण्डले नद्यो याः पतन्ति महानदम् 008a
ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् 008c
पुष्करं च प्रभासं च नैमिषं सागरोदकम् 009a
देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च 009c
विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः 009e
हिरण्यबिन्दुं विक्षोभ्य प्रयतश्चाभिवाद्य तम् 010a
कुशेशयं च देवत्वं पूयते तस्य किल्बिषम् 010c
इन्द्रतोयां समासाद्य गन्धमादनसन्निधौ 011a
करतोयां कुरङ्गेषु त्रिरात्रोपोषितो नरः 011c
अश्वमेधमवाप्नोति विगाह्य नियतः शुचिः 011e
गङ्गाद्वारे कुशावर्ते बिल्वके नेमिपर्वते 012a
तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् 012c
अपां ह्रद उपस्पृश्य वाजपेयफलं लभेत् 013a
ब्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः 013c
यत्र भागीरथी गङ्गा भजते दिशमुत्तराम् 014a
महेश्वरस्य निष्ठाने यो नरस्त्वभिषिच्यते 014c
एकमासं निराहारः स्वयं पश्यति देवताः 014e
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् 015a
सुधां वै लभते भोक्तुं यो नरो जायते पुनः 015c
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः 016a
एकमासं निराहारः सिद्धिं मासेन स व्रजेत् 016c
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः 017a
त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया 017c
कन्याकूप उपस्पृश्य बलाकायां कृतोदकः 018a
देवेषु कीर्तिं लभते यशसा च विराजते 018c
देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे 019a
अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः 019c
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा 020a
पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः 020c
वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा 021a
निवासेऽप्सरसां दिव्ये कामचारी महीयते 021c
कालिकाश्रममासाद्य विपाशायां कृतोदकः 022a
ब्रह्मचारी जितक्रोधस्त्रिरात्रान्मुच्यते भवात् 022c
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन् 023a
तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् 023c
महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः 024a
त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् 024c
देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः 025a
देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः 025c
कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा 026a
आपःप्रपतने स्नातः सेव्यते सोऽप्सरोगणैः 026c
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले 027a
विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति 027c
श्यामायास्त्वाश्रमं गत्वा उष्य चैवाभिषिच्य च 028a
त्रींस्त्रिरात्रान्स सन्धाय गन्धर्वनगरे वसेत् 028c
रमण्यां च उपस्पृश्य तथा वै गन्धतारिके 029a
एकमासं निराहारस्त्वन्तर्धानफलं लभेत् 029c
कौशिकीद्वारमासाद्य वायुभक्षस्त्वलोलुपः 030a
एकविंशतिरात्रेण स्वर्गमारोहते नरः 030c
मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति 031a
विगाहति ह्यनालम्बमन्धकं वै सनातनम् 031c
नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः 032a
फलं पुरुषमेधस्य लभेन्मासं कृतोदकः 032c
गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने 033a
अश्वमेधमवाप्नोति तत्र मासं कृतोदकः 033c
गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ 034a
षष्टिह्रद उपस्पृश्य दानं नान्यद्विशिष्यते 034c
दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापराः 035a
समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ 035c
माघमासं प्रयागे तु नियतः संशितव्रतः 036a
स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् 036c
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः 037a
वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः 037c
तथा ब्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः 038a
एकमासं निराहारः सोमलोकमवाप्नुयात् 038c
कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः 039a
द्वादशाहं निराहारो नरमेधफलं लभेत् 039c
मुञ्जपृष्ठं गयां चैव निरृतिं देवपर्वतम् 040a
तृतीयां क्रौञ्चपादीं च ब्रह्महत्या विशुध्यति 040c
कलश्यां वाप्युपस्पृश्य वेद्यां च बहुशोजलाम् 041a
अग्नेः पुरे नरः स्नात्वा विशालायां कृतोदकः 041c
देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते 041e
पुरापवर्तनं नन्दां महानन्दां च सेव्य वै 042a
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः 042c
उर्वशीकृत्तिकायोगे गत्वा यः सुसमाहितः 043a
लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् 043c
रामह्रद उपस्पृश्य विशालायां कृतोदकः 044a
द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते 044c
महाह्रद उपस्पृश्य शुद्धेन मनसा नरः 045a
एकमासं निराहारो जमदग्निगतिं लभेत् 045c
विन्ध्ये सन्ताप्य चात्मानं सत्यसन्धस्त्वहिंसकः 046a
षण्मासं पदमास्थाय मासेनैकेन शुध्यति 046c
नर्मदायामुपस्पृश्य तथा सूर्पारकोदके 047a
एकपक्षं निराहारो राजपुत्रो विधीयते 047c
जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः 048a
अहोरात्रेण चैकेन सिद्धिं समधिगच्छति 048c
कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम् 049a
शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश 049c
वैवस्वतस्य सदनं न स गच्छेत्कदाचन 050a
यस्य कन्याह्रदे वासो देवलोकं स गच्छति 050c
प्रभासे त्वेकरात्रेण अमावास्यां समाहितः 051a
सिध्यतेऽत्र महाबाहो यो नरो जायते पुनः 051c
उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे 052a
पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते 052c
कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् 053a
अश्वमेधमवाप्नोति त्रिरात्रोपोषितः शुचिः 053c
पिण्डारक उपस्पृश्य एकरात्रोषितो नरः 054a
अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः 054c
तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् 055a
पुण्डरीकमवाप्नोति प्रभातां शर्वरीं शुचिः 055c
मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च 056a
कामं जित्वा च वै मासं सर्वमेधफलं लभेत् 056c
विख्यातो हिमवान्पुण्यः शङ्करश्वशुरो गिरिः 057a
आकरः सर्वरत्नानां सिद्धचारणसेवितः 057c
शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके 058a
अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः 058c
अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा 059a
ततः सिद्धो दिवं गच्छेद्ब्रह्मलोकं सनातनम् 059c
कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् 060a
न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् 060c
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च 061a
मनसा तानि गम्यानि सर्वतीर्थसमासतः 061c
इदं मेध्यमिदं धन्यमिदं स्वर्ग्यमिदं सुखम् 062a
इदं रहस्यं देवानामाप्लाव्यानां च पावनम् 062c
इदं दद्याद्द्विजातीनां साधूनामात्मजस्य वा 063a
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा 063c
दत्तवान्गौतमस्येदमङ्गिरा वै महातपाः 064a
गुरुभिः समनुज्ञातः काश्यपेन च धीमता 064c
महर्षीणामिदं जप्यं पावनानां तथोत्तमम् 065a
जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् 065c
इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम् 066a
उत्तमे च कुले जन्म लभेज्जातिं च संस्मरेत् 066c