युधिष्ठिर उवाच 001
इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत 001a
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते 001c
भीष्म उवाच 002
व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम् 002a
तत्तेऽहं सम्प्रवक्ष्यामि तदिहैकमनाः शृणु 002c
चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने 003a
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते 003c
इति पृष्टो महाराज पराशरशरीरजः 004a
अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् 004c
ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम् 005a
ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् 005c
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत 006a
वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् 006c
गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप 007a
उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम् 007c
यः प्रवृत्तां श्रुतिं सम्यक्शास्त्रं वा मुनिभिः कृतम् 008a
दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् 008c
आत्मजां रूपसम्पन्नां महतीं सदृशे वरे 009a
न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम् 009c
अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु 010a
दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् 010c
चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा 011a
हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम् 011c
आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे 012a
अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् 012c