युधिष्ठिर उवाच 001
श्राद्धकाले च दैवे च धर्मे चापि पितामह 001a
इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः 001c
भीष्म उवाच 002
दैवं पूर्वाह्णिके कुर्यादपराह्णे तु पैतृकम् 002a
मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान् 002c
मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः 003a
कालहीनं तु यद्दानं तं भागं रक्षसां विदुः 003c
लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम् 004a
रजस्वलाभिर्दृष्टं च तं भागं रक्षसां विदुः 004c
अवघुष्टं च यद्भुक्तमव्रतेन च भारत 005a
परामृष्टं शुना चैव तं भागं रक्षसां विदुः 005c
केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् 006a
रुदितं चावधूतं च तं भागं रक्षसां विदुः 006c
निरोङ्कारेण यद्भुक्तं सशस्त्रेण च भारत 007a
दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः 007c
परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत् 008a
दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः 008c
गर्हितं निन्दितं चैव परिविष्टं समन्युना 009a
दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः 009c
मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते 010a
त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः 010c
आज्याहुतिं विना चैव यत्किञ्चित्परिविष्यते 011a
दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः 011c
ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ 012a
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु 012c
यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च 013a
दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम् 013c
श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः 014a
अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम् 014c
चिकित्सका देवलका वृथानियमधारिणः 015a
सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम् 015c
गायना नर्तकाश्चैव प्लवका वादकास्तथा 016a
कथका योधकाश्चैव राजन्नार्हन्ति केतनम् 016c
होतारो वृषलानां च वृषलाध्यापकास्तथा 017a
तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम् 017c
अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत 018a
नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ 018c
अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः 019a
ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम् 019c
अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये 020a
स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम् 020c
अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत 021a
पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम् 021c
ऋणकर्ता च यो राजन्यश्च वार्धुषिको द्विजः 022a
प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् 022c
स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ 023a
अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् 023c
श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ 024a
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः 024c
चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः 025a
सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः 025c
क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम् 026a
न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत् 026c
अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् 027a
अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः 027c
सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ 028a
भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः 028c
उदितास्तमितो यश्च तथैवास्तमितोदितः 029a
अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः 029c
अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ 030a
ससञ्ज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः 030c
अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक् 031a
पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः 031c
अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः 032a
भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः 032c
ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् 033a
अदेयं पितृदेवेभ्यो यच्च क्लैब्यादुपार्जितम् 033c
क्रियमाणेऽपवर्गे तु यो द्विजो भरतर्षभ 034a
न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम् 034c
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा 035a
सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर 035c
श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत् 036a
क्षत्रियस्याप्यथो ब्रूयात्प्रीयन्तां पितरस्त्विति 036c
अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत 037a
अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत 037c
पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते 038a
एतदेव निरोङ्कारं क्षत्रियस्य विधीयते 038c
वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति 038e
कर्मणामानुपूर्वीं च विधिपूर्वकृतं शृणु 039a
जातकर्मादिकान्सर्वांस्त्रिषु वर्णेषु भारत 039c
ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर 039e
विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी 040a
बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर 040c
दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु 041a
ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसञ्ज्ञितः 041c
चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः 041e
नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः 042a
यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि 042c
अथ राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः 043a
यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात् 043c
दैवं वाप्यथ वा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु 044a
अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम् 044c
आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु 045a
ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम् 045c
अन्नेनान्नं च यो लिप्सेत्कर्मार्थं चैव भारत 046a
आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम् 046c
अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर 047a
मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम् 047c
युधिष्ठिर उवाच 048
पित्र्यं वाप्यथ वा दैवं दीयते यत्पितामह 048a
एतदिच्छाम्यहं श्रोतुं दत्तं येषु महाफलम् 048c
भीष्म उवाच 049
येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः 049a
उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर 049c
चारित्रनियता राजन्ये कृशाः कृशवृत्तयः 050a
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् 050c
तद्भक्तास्तद्गृहा राजंस्तद्धनास्तदपाश्रयाः 051a
अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् 051c
तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर 052a
अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम् 052c
अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः 053a
बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् 053c
हृतस्वा हृतदाराश्च ये विप्रा देशसम्प्लवे 054a
अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् 054c
व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसम्मताः 055a
तत्समाप्त्यर्थमिच्छन्ति तेषु दत्तं महाफलम् 055c
अव्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च 056a
कृशप्राणाः कृशधनास्तेषु दत्तं महाफलम् 056c
कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः 057a
स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम् 057c
तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये 058a
अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम् 058c
महाफलविधिर्दाने श्रुतस्ते भरतर्षभ 059a
निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु 059c
गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर 060a
येऽनृतं कथयन्ति स्म ते वै निरयगामिनः 060c
परदाराभिहर्तारः परदाराभिमर्शिनः 061a
परदारप्रयोक्तारस्ते वै निरयगामिनः 061c
ये परस्वापहर्तारः परस्वानां च नाशकाः 062a
सूचकाश्च परेषां ये ते वै निरयगामिनः 062c
प्रपाणां च सभानां च सङ्क्रमाणां च भारत 063a
अगाराणां च भेत्तारो नरा निरयगामिनः 063c
अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् 064a
वञ्चयन्ति नरा ये च ते वै निरयगामिनः 064c
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत 065a
मित्रच्छेदं तथाशायास्ते वै निरयगामिनः 065c
सूचकाः सन्धिभेत्तारः परवृत्त्युपजीवकाः 066a
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः 066c
पाषण्डा दूषकाश्चैव समयानां च दूषकाः 067a
ये प्रत्यवसिताश्चैव ते वै निरयगामिनः 067c
कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम् 068a
भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः 068c
पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा 069a
उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः 069c
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः 070a
वेदानां लेखकाश्चैव ते वै निरयगामिनः 070c
चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः 071a
विकर्मभिश्च जीवन्ति ते वै निरयगामिनः 071c
केशविक्रयिका राजन्विषविक्रयिकाश्च ये 072a
क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः 072c
ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर 073a
येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः 073c
शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर 074a
शल्यानां धनुषां चैव ते वै निरयगामिनः 074c
शल्यैर्वा शङ्कुभिर्वापि श्वभ्रैर्वा भरतर्षभ 075a
ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः 075c
उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ 076a
ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः 076c
अप्राप्तदमकाश्चैव नासानां वेधकास्तथा 077a
बन्धकाश्च पशूनां ये ते वै निरयगामिनः 077c
अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः 078a
समर्थाश्चाप्यदातारस्ते वै निरयगामिनः 078c
क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् 079a
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः 079c
बालानामथ वृद्धानां दासानां चैव ये नराः 080a
अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः 080c
एते पूर्वर्षिभिर्दृष्टाः प्रोक्ता निरयगामिनः 081a
भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ 081c
सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत 082a
हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः 082c
दानेन तपसा चैव सत्येन च युधिष्ठिर 083a
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः 083c
शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भारत 084a
ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः 084c
भयात्पापात्तथाबाधाद्दारिद्र्याद्व्याधिधर्षणात् 085a
यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः 085c
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः 086a
मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः 086c
निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च 087a
निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः 087c
आश्रमाणां च कर्तारः कुलानां चैव भारत 088a
देशानां नगराणां च ते नराः स्वर्गगामिनः 088c
वस्त्राभरणदातारो भक्षपानान्नदास्तथा 089a
कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः 089c
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये 090a
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः 090c
मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः 091a
भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः 091c
आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत 092a
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः 092c
अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः 093a
आराधनसुखाश्चापि ते नराः स्वर्गगामिनः 093c
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः 094a
त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः 094c
सुवर्णस्य च दातारो गवां च भरतर्षभ 095a
यानानां वाहनानां च ते नराः स्वर्गगामिनः 095c
वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर 096a
दातारो वाससां चैव ते नराः स्वर्गगामिनः 096c
विहारावसथोद्यानकूपारामसभाप्रदाः 097a
वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः 097c
निवेशनानां क्षेत्राणां वसतीनां च भारत 098a
दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः 098c
रसानामथ बीजानां धान्यानां च युधिष्ठिर 099a
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः 099c
यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः 100a
सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः 100c
एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत 101a
धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ 101c