युधिष्ठिर उवाच 001
किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् 001a
ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम् 001c
भीष्म उवाच 002
स्ववृत्तिमभिपन्नाय लिङ्गिने वेतराय वा 002a
देयमाहुर्महाराज उभावेतौ तपस्विनौ 002c
युधिष्ठिर उवाच 003
श्रद्धया परया पूतो यः प्रयच्छेद्द्विजातये 003a
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह 003c
भीष्म उवाच 004
श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः 004a
पूतो भवति सर्वत्र किं पुनस्त्वं महीपते 004c
युधिष्ठिर उवाच 005
न ब्राह्मणं परीक्षेत दैवेषु सततं नरः 005a
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः 005c
भीष्म उवाच 006
न ब्राह्मणः साधयते हव्यं दैवात्प्रसिध्यति 006a
देवप्रसादादिज्यन्ते यजमाना न संशयः 006c
ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः 007a
मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान् 007c
युधिष्ठिर उवाच 008
अपूर्वोऽप्यथ वा विद्वान्सम्बन्धी वाथ यो भवेत् 008a
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः 008c
भीष्म उवाच 009
कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् 009a
ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रयः 009c
तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम् 010a
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि 010c
पृथिव्युवाच 011
यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति 011a
तथा दुश्चरितं सर्वं त्रय्यावृत्त्या विनश्यति 011c
काश्यप उवाच 012
सर्वे च वेदाः सह षड्भिरङ्गैः साङ्ख्यं पुराणं च कुले च जन्म 012a
नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नरस्य राजन् 012c
अग्निरुवाच 013
अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम् 013a
ब्रह्मन्स तेनाचरते ब्रह्महत्यां लोकास्तस्य ह्यन्तवन्तो भवन्ति 013c
मार्कण्डेय उवाच 014
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् 014a
नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् 014c
भीष्म उवाच 015
इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः 015a
पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः 015c
युधिष्ठिर उवाच 016
यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः 016a
भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् 016c
भीष्म उवाच 017
आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः 017a
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते 017c
युधिष्ठिर उवाच 018
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः 018a
किं निश्चितं भवेत्तत्र तन्मे ब्रूहि पितामह 018c
भीष्म उवाच 019
अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा 019a
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् 019c
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् 020a
अनाचरन्तस्तद्धर्मं सङ्करे निरताः प्रभो 020c
तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति यः 021a
दश वर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः 021c
मेदानां पुल्कसानां च तथैवान्तावसायिनाम् 022a
कृतं कर्माकृतं चापि रागमोहेन जल्पताम् 022c
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे 023a
ददतीह न राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् 023c
युधिष्ठिर उवाच 024
किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम् 024a
किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह 024c
भीष्म उवाच 025
ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् 025a
मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् 025c
युधिष्ठिर उवाच 026
कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत् 026a
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह 026c
भीष्म उवाच 027
काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् 027a
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् 027c
ब्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजयेत् 028a
सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः 028c
अधिकारे यदनृतं राजगामि च पैशुनम् 029a
गुरोश्चालीककरणं समं तद्ब्रह्महत्यया 029c
प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च 030a
भ्रूणहत्यासमं चैतदुभयं यो निषेवते 030c
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् 031a
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया 031c
युधिष्ठिर उवाच 032
कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् 032a
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह 032c
भीष्म उवाच 033
अक्रोधना धर्मपराः सत्यनित्या दमे रताः 033a
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् 033c
अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः 034a
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् 034c
अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः 035a
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् 035c
साङ्गांश्च चतुरो वेदान्योऽधीयीत द्विजर्षभः 036a
षड्भ्यो निवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः 036c
ये त्वेवङ्गुणजातीयास्तेभ्यो दत्तं महाफलम् 037a
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः 037c
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः 038a
तारयेत कुलं कृत्स्नमेकोऽपीह द्विजर्षभः 038c
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् 039a
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति 039c
तारयेत कुलं कृत्स्नमेकोऽपीह द्विजोत्तमः 040a
किमङ्ग पुनरेकं वै तस्मात्पात्रं समाचरेत् 040c
निशम्य च गुणोपेतं ब्राह्मणं साधुसम्मतम् 041a
दूरादानाययेत्कृत्ये सर्वतश्चाभिपूजयेत् 041c