युधिष्ठिर उवाच 001
न बिभेति कथं सा स्त्री शापस्य परमद्युतेः 001a
कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे 001c
भीष्म उवाच 002
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् 002a
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया 002c
स्त्र्युवाच 003
द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम 003a
शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम 003c
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते 004a
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम 004c
जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ 005a
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः 005c
तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः 006a
स त्वं येन च कार्येण सम्प्राप्तो भगवानिह 006c
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ 007a
तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया 007c
क्षेमी गमिष्यसि गृहाञ्श्रमश्च न भविष्यति 008a
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति 008c
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् 009a
अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिः सदा 009c
गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि 010a
यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् 010c
ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ 011a
तस्य सम्माननार्थं मे त्वयि वाक्यं प्रभाषितम् 011c
श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः 012a
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत् 012c
गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य च 013a
अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन 013c
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् 014a
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना 014c
भवताहमनुज्ञातः प्रस्थितो गन्धमादनम् 015a
तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत् 015c
तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः 016a
श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो 016c
तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् 017a
नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् 017c
भीष्म उवाच 018
अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो 018a
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा 018c
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् 019a
उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः 019c