भीष्म उवाच 001
अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति 001a
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् 001c
अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना 002a
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत् 002c
शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत् 003a
भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम् 003c
अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा 004a
स्नापयामास शनकैस्तमृषिं सुखहस्तवत् 004c
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा 004e
स तेन सुसुखोष्णेन तस्या हस्तसुखेन च 005a
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः 005c
तत उत्थाय स मुनिस्तदा परमविस्मितः 006a
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि 006c
तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत् 007a
अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम् 007c
सा चामृतरसप्रख्यमृषेरन्नमुपाहरत् 008a
तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः 008c
व्यगमच्चाप्यहःशेषं ततः सन्ध्यागमत्पुनः 008e
अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत् 009a
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते 009c
अष्टावक्र उवाच 010
न भद्रे परदारेषु मनो मे सम्प्रसज्जति 010a
उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च 010c
भीष्म उवाच 011
सा तदा तेन विप्रेण तथा धृत्या निवर्तिता 011a
स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते 011c
अष्टावक्र उवाच 012
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः 012a
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति 012c
स्त्र्युवाच 013
बाधते मैथुनं विप्र मम भक्तिं च पश्य वै 013a
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि 013c
अष्टावक्र उवाच 014
हरन्ति दोषजातानि नरं जातं यथेच्छकम् 014a
प्रभवामि सदा धृत्या भद्रे स्वं शयनं व्रज 014c
स्त्र्युवाच 015
शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि 015a
भूमौ निपतमानायाः शरणं भव मेऽनघ 015c
यदि वा दोषजातं त्वं परदारेषु पश्यसि 016a
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज 016c
न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् 017a
स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि 017c
अष्टावक्र उवाच 018
स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै 018a
नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति 018c
पिता रक्षति कौमारे भर्ता रक्षति यौवने 019a
पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति 019c
स्त्र्युवाच 020
कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः 020a
कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम 020c
अष्टावक्र उवाच 021
यथा मम तथा तुभ्यं यथा तव तथा मम 021a
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् 021c
आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत् 022a
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता 022c
किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः 023a
कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत् 023c
यथा परं शक्तिधृतेर्न व्युत्थास्ये कथञ्चन 024a
न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम् 024c