अष्टावक्र उवाच 001
तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम् 001a
यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् 001c
भीष्म उवाच 002
ततोऽगच्छत्स भगवानुत्तरामुत्तमां दिशम् 002a
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् 002c
स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् 003a
अभ्यगच्छन्नदीं पुण्यां बाहुदां धर्मदायिनीम् 003c
अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः 004a
तत्र वासाय शयने कौश्ये सुखमुवास ह 004c
ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः 005a
स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः 005c
रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत् 006a
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ 006c
सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया 007a
मन्दाकिनीं च नलिनीं धनदस्य महात्मनः 007c
अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम् 008a
प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः 008c
स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् 009a
निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् 009c
ते राक्षसास्तदा राजन्भगवन्तमथाब्रुवन् 010a
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् 010c
विदितो भगवानस्य कार्यमागमने च यत् 011a
पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा 011c
ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् 012a
विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् 012c
सुखं प्राप्तो भवान्कच्चित्किं वा मत्तश्चिकीर्षसि 013a
ब्रूहि सर्वं करिष्यामि यन्मां त्वं वक्ष्यसि द्विज 013c
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम 014a
सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः 014c
प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् 015a
आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च 015c
अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः 016a
निषेदुस्तत्र कौबेरा यक्षगन्धर्वराक्षसाः 016c
ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् 017a
भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः 017c
आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा 018a
संवर्ततामित्युवाच मुनिर्मधुरया गिरा 018c
अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा 019a
अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः 019c
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा 020a
विद्युता प्रशमा दान्ता विद्योता रतिरेव च 020c
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः 021a
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च 021c
अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपावसत् 022a
दिव्यं संवत्सरं तत्र रमन्वै सुमहातपाः 022c
ततो वैश्रवणो राजा भगवन्तमुवाच ह 023a
साग्रः संवत्सरो यातस्तव विप्रेह पश्यतः 023c
हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः 024a
छन्दतो वर्ततां विप्र यथा वदति वा भवान् 024c
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् 025a
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि 025c
अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत 026a
अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर 026c
प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप 027a
तव प्रसादाद्भगवन्महर्षेश्च महात्मनः 027c
नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव 027e
अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः 028a
कैलासं मन्दरं हैमं सर्वाननुचचार ह 028c
तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् 029a
प्रदक्षिणं ततश्चक्रे प्रयतः शिरसा नमन् 029c
धरणीमवतीर्याथ पूतात्मासौ तदाभवत् 029e
स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः 030a
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः 030c
ततोऽपरं वनोद्देशं रमणीयमपश्यत 031a
सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितम् 031c
रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम् 031e
तत्राश्रमपदं दिव्यं ददर्श भगवानथ 032a
शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् 032c
मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च 032e
अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ 033a
भृशं तस्य मनो रेमे महर्षेर्भावितात्मनः 033c
स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् 034a
ददर्शाद्भुतसङ्काशं धनदस्य गृहाद्वरम् 034c
महान्तो यत्र विविधाः प्रासादाः पर्वतोपमाः 035a
विमानानि च रम्याणि रत्नानि विविधानि च 035c
मन्दारपुष्पैः सङ्कीर्णा तथा मन्दाकिनी नदी 036a
स्वयम्प्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता 036c
नानाविधैश्च भवनैर्विचित्रमणितोरणैः 037a
मुक्ताजालपरिक्षिप्तैर्मणिरत्नविभूषितैः 037c
मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः 037e
ऋषिः समन्ततोऽपश्यत्तत्र तत्र मनोरमम् 038a
ततोऽभवत्तस्य चिन्ता क्व मे वासो भवेदिति 038c
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् 039a
अतिथिं मामनुप्राप्तमनुजानन्तु येऽत्र वै 039c
अथ कन्यापरिवृता गृहात्तस्माद्विनिःसृताः 040a
नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः 040c
यां यामपश्यत्कन्यां स सा सा तस्य मनोऽहरत् 041a
नाशक्नुवद्धारयितुं मनोऽथास्यावसीदति 041c
ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः 042a
अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति 042c
स च तासां सुरूपाणां तस्यैव भवनस्य च 043a
कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः 043c
तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् 044a
वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् 044c
स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत्तदा 045a
प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह 045c
अष्टावक्र उवाच 046
सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु 046a
सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः 046c
ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा 047a
निराक्रामन्गृहात्तस्मात्सा वृद्धाथ व्यतिष्ठत 047c
अथ तां संविशन्प्राह शयने भास्वरे तदा 048a
त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते 048c
संलापात्तेन विप्रेण तथा सा तत्र भाषिता 049a
द्वितीये शयने दिव्ये संविवेश महाप्रभे 049c
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा 050a
व्यपदिश्य महर्षेर्वै शयनं चाध्यरोहत 050c
स्वागतं स्वागतेनास्तु भगवांस्तामभाषत 051a
सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ 051c
निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा 052a
दुःखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह 052c
ब्रह्मन्न कामकारोऽस्ति स्त्रीणां पुरुषतो धृतिः 053a
कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् 053c
प्रहृष्टो भव विप्रर्षे समागच्छ मया सह 054a
उपगूह च मां विप्र कामार्ताहं भृशं त्वयि 054c
एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम् 055a
प्रार्थितं दर्शनादेव भजमानां भजस्व माम् 055c
सद्म चेदं वनं चेदं यच्चान्यदपि पश्यसि 056a
प्रभुत्वं तव सर्वत्र मयि चैव न संशयः 056c
सर्वान्कामान्विधास्यामि रमस्व सहितो मया 057a
रमणीये वने विप्र सर्वकामफलप्रदे 057c
त्वद्वशाहं भविष्यामि रंस्यसे च मया सह 058a
सर्वान्कामानुपाश्नानो ये दिव्या ये च मानुषाः 058c
नातः परं हि नारीणां कार्यं किञ्चन विद्यते 059a
यथा पुरुषसंसर्गः परमेतद्धि नः फलम् 059c
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः 060a
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः 060c
अष्टावक्र उवाच 061
परदारानहं भद्रे न गच्छेयं कथञ्चन 061a
दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् 061c
भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे 062a
विषयेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः 062c
एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः 063a
भद्रे धर्मं विजानीष्व ज्ञात्वा चोपरमस्व ह 063c
स्त्र्युवाच 064
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज 064a
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः 064c
सहस्रैका यता नारी प्राप्नोतीह कदाचन 065a
तथा शतसहस्रेषु यदि काचित्पतिव्रता 065c
नैता जानन्ति पितरं न कुलं न च मातरम् 066a
न भ्रातॄन्न च भर्तारं न पुत्रान्न च देवरान् 066c
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः 067a
दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत 067c
भीष्म उवाच 068
ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत 068a
आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे 068c
सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः 069a
वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि 069c
ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर 070a
वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः 070c
अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयान्विताम् 071a
चिन्तां परमिकां भेजे सन्तप्त इव चाभवत् 071c
यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा 072a
नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता 072c
देवतेयं गृहस्यास्य शापान्नूनं विरूपिता 073a
अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया 073c
इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः 074a
व्यगमत्तदहःशेषं मनसा व्याकुलेन तु 074c
अथ सा स्त्री तदोवाच भगवन्पश्य वै रवेः 075a
रूपं सन्ध्याभ्रसंयुक्तं किमुपस्थाप्यतां तव 075c
स उवाच तदा तां स्त्रीं स्नानोदकमिहानय 076a
उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रियः 076c