युधिष्ठिर उवाच 001
यदिदं सहधर्मेति प्रोच्यते भरतर्षभ 001a
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् 001c
आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः 002a
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः 002c
सन्देहः सुमहानेष विरुद्ध इति मे मतिः 003a
इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु 003c
स्वर्गे मृतानां भवति सहधर्मः पितामह 004a
पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद 004c
नानाकर्मफलोपेता नानाकर्मनिवासिनः 005a
नानानिरयनिष्ठान्ता मानुषा बहवो यदा 005c
अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति 006a
यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः 006c
अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते 007a
धर्मोऽयं पौर्विकी सञ्ज्ञा उपचारः क्रियाविधिः 007c
गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् 008a
निःसन्देहमिदं सर्वं पितामह यथा श्रुतिः 008c
यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् 009a
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे 009c
भीष्म उवाच 010
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 010a
अष्टावक्रस्य संवादं दिशया सह भारत 010c
निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः 011a
ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः 011c
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि 012a
गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम् 012c
सा तस्य दृष्ट्वैव मनो जहार शुभलोचना 013a
वनराजी यथा चित्रा वसन्ते कुसुमाचिता 013c
ऋषिस्तमाह देया मे सुता तुभ्यं शृणुष्व मे 014a
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः 014c
अष्टावक्र उवाच 015
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् 015a
तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान् 015c
वदान्य उवाच 016
धनदं समतिक्रम्य हिमवन्तं तथैव च 016a
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् 016c
प्रहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः 017a
दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा 017c
पाणितालसतालैश्च शम्यातालैः समैस्तथा 018a
सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते 018c
इष्टं किल गिरौ स्थानं तद्दिव्यमनुशुश्रुम 019a
नित्यं सन्निहितो देवस्तथा पारिषदाः शुभाः 019c
तत्र देव्या तपस्तप्तं शङ्करार्थं सुदुश्चरम् 020a
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः 020c
तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा 021a
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः 021c
सर्वे देवमुपासन्ते रूपिणः किल तत्र ह 022a
तदतिक्रम्य भवनं त्वया यातव्यमेव हि 022c
ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसन्निभम् 023a
रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् 023c
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् 024a
द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः 024c
तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि 025a
यद्येष समयः सत्यः साध्यतां तत्र गम्यताम् 025c