वैशम्पायन उवाच 001
महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः 001a
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः 001c
पुरा पुत्र मया मेरौ तप्यता परमं तपः 002a
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः 002c
लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन 003a
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि 003c
चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा 004a
आलम्बायन इत्येव विश्रुतः करुणात्मकः 004c
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः 005a
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् 005c
अजराणामदुःखानां शतवर्षसहस्रिणाम् 006a
लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज 006c
वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत 007a
विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति 007c
उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत 007e
सोऽहमीशानमनघमस्तौषं शरणं गतः 008a
मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः 008c
आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति 008e
जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः 009a
ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः 009c
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज 010a
शुचिर्भूत्वा महादेवं गतवाञ्शरणं नृप 010c
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः 011a
परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे 011c
पापं न भविता तेऽद्य अजेयश्च भविष्यसि 012a
न ते प्रभविता मृत्युर्यशस्वी च भविष्यसि 012c
आह मां भगवानेवं शिखण्डी शिवविग्रहः 013a
यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः 013c
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् 014a
शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम 014c
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः 014e
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा 015a
प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः 015c
वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः 016a
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके 016c
वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया 016e
रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते 017a
समीक्षस्व पुनर्बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम 017c
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते 017e
एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः 018a
प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः 018c
दश वर्षसहस्राणि दशाष्टौ च शतानि च 018e
नष्टपानीययवसे मृगैरन्यैश्च वर्जिते 019a
अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते 019c
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः 019e
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः 020a
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः 020c
अजरश्चामरश्चैव भविता दुःखवर्जितः 021a
साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः 021c
अनुग्रहानेवमेष करोति भगवान्विभुः 022a
परं धाता विधाता च सुखदुःखे च सर्वदा 022c
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा 023a
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः 023c
जैगीषव्य उवाच 024
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा 024a
यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर 024c
गार्ग्य उवाच 025
चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद्भुतम् 025a
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव 025c
तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् 026a
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् 026c
पराशर उवाच 027
प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप 027a
महातपा महातेजा महायोगी महायशाः 027c
वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः 027e
अपि नामेप्सितः पुत्रो मम स्याद्वै महेश्वरात् 028a
इति मत्वा हृदि मतं प्राह मां सुरसत्तमः 028c
मयि सम्भवतस्तस्य फलात्कृष्णो भविष्यति 029a
सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति 029c
वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा 030a
इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः 030c
भविष्यति महेन्द्रस्य दयितः स महामुनिः 031a
अजरश्चामरश्चैव पराशर सुतस्तव 031c
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत 032a
युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः 032c
माण्डव्य उवाच 033
अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं यदा 033a
तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः 033c
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् 034a
रुजा शूलकृता चैव न ते विप्र भविष्यति 034c
आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि 034e
पादाच्चतुर्थात्सम्भूत आत्मा यस्मान्मुने तव 035a
त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु 035c
तीर्थाभिषेकं सफलं त्वमविघ्नेन चाप्स्यसि 036a
स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् 036c
एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः 037a
महेश्वरो महाराज कृत्तिवासा महाद्युतिः 037c
सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत 037e
गालव उवाच 038
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः 038a
अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् 038c
कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् 039a
न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ 039c
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने 040a
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् 040c
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः 041a
भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये 041c
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर 042a
अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् 042c
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाद्गुरून् 043a
तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः 043c
प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव 044a
दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः 044c
वैशम्पायन उवाच 045
एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः 045a
प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः 045c
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः 046a
युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः 046c
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो वसवोऽथ विश्वे 047a
धातार्यमा शुक्रबृहस्पती च रुद्राः ससाध्या वरुणो वित्तगोपः 047c
ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं वेदा यज्ञा दक्षिणा वेदवाहाः 048a
सोमो यष्टा यच्च हव्यं हविश्च रक्षा दीक्षा नियमा ये च केचित् 048c
स्वाहा वषड्ब्राह्मणाः सौरभेया धर्मं चक्रं कालचक्रं चरं च 049a
यशो दमो बुद्धिमती स्थितिश्च शुभाशुभं मुनयश्चैव सप्त 049c
अग्र्या बुद्धिर्मनसा दर्शने च स्पर्शे सिद्धिः कर्मणां या च सिद्धिः 050a
गणा देवानामूष्मपाः सोमपाश्च लेखाः सुयामास्तुषिता ब्रह्मकायाः 050c
आभास्वरा गन्धपा दृष्टिपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः 051a
शुद्धाश्च निर्वाणरताश्च देवाः स्पर्शाशना दर्शपा आज्यपाश्च 051c
चिन्तागता ये च देवेषु मुख्या ये चाप्यन्ये देवताश्चाजमीढ 052a
सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा पन्नगाश्चारणाश्च 052c
सूक्ष्मं स्थूलं मृदु यच्चाप्यसूक्ष्मं सुखं दुःखं सुखदुःखान्तरं च 053a
साङ्ख्यं योगं यत्पराणां परं च शर्वाज्जातं विद्धि यत्कीर्तितं मे 053c
तत्सम्भूता भूतकृतो वरेण्याः सर्वे देवा भुवनस्यास्य गोपाः 054a
आविश्येमां धरणीं येऽभ्यरक्षन्पुरातनीं तस्य देवस्य सृष्टिम् 054c
विचिन्वन्तं मनसा तोष्टुवीमि किञ्चित्तत्त्वं प्राणहेतोर्नतोऽस्मि 055a
ददातु देवः स वरानिहेष्टानभिष्टुतो नः प्रभुरव्ययः सदा 055c
इमं स्तवं सन्नियम्येन्द्रियाणि शुचिर्भूत्वा यः पुरुषः पठेत 056a
अभग्नयोगो नियतोऽब्दमेकं स प्राप्नुयादश्वमेधे फलं यत् 056c
वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयाच्च जयेद्राजा पृथिवीं चापि कृत्स्नाम् 057a
वैश्यो लाभं प्राप्नुयान्नैपुणं च शूद्रो गतिं प्रेत्य तथा सुखं च 057c
स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः 058a
सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम् 058c
यावन्त्यस्य शरीरेषु रोमकूपाणि भारत 059a
तावद्वर्षसहस्राणि स्वर्गे वसति मानवः 059c