वासुदेव उवाच 001
ततः स प्रयतो भूत्वा मम तात युधिष्ठिर 001a
प्राञ्जलिः प्राह विप्रर्षिर्नामसंहारमादितः 001c
उपमन्युरुवाच 002
ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः 002a
सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः 002c
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः 003a
ऋषिणा तण्डिना भक्त्या कृतैर्देवकृतात्मना 003c
यथोक्तैर्लोकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः 004a
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् 004c
श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः 004e
यत्तद्रहस्यं परमं ब्रह्मप्रोक्तं सनातनम् 005a
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम 005c
परत्वेन भवं देवं भक्तस्त्वं परमेश्वरम् 006a
तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् 006c
न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् 007a
युक्तेनापि विभूतीनामपि वर्षशतैरपि 007c
यस्यादिर्मध्यमन्तश्च सुरैरपि न गम्यते 008a
कस्तस्य शक्नुयाद्वक्तुं गुणान्कार्त्स्न्येन माधव 008c
किं तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् 009a
शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि 009c
अप्राप्येह ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः 010a
यदा तेनाभ्यनुज्ञातः स्तुवत्येव सदा भवम् 010c
अनादिनिधनस्याहं सर्वयोनेर्महात्मनः 011a
नाम्नां कञ्चित्समुद्देशं वक्ष्ये ह्यव्यक्तयोनिनः 011c
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः 012a
शृणु नामसमुद्देशं यदुक्तं पद्मयोनिना 012c
दश नामसहस्राणि यान्याह प्रपितामहः 013a
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् 013c
गिरेः सारं यथा हेम पुष्पात्सारं यथा मधु 014a
घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम् 014c
सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम् 015a
प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना 015c
शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत् 015e
इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च 016a
नाश्रद्दधानरूपाय नास्तिकायाजितात्मने 016c
यश्चाभ्यसूयते देवं भूतात्मानं पिनाकिनम् 017a
स कृष्ण नरकं याति सह पूर्वैः सहानुगैः 017c
इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् 018a
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् 018c
इदं ज्ञात्वान्तकालेऽपि गच्छेद्धि परमां गतिम् 018e
पवित्रं मङ्गलं पुण्यं कल्याणमिदमुत्तमम् 019a
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् 019c
इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः 020a
सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत् 020c
तदाप्रभृति चैवायमीश्वरस्य महात्मनः 021a
स्तवराजेति विख्यातो जगत्यमरपूजितः 021c
ब्रह्मलोकादयं चैव स्तवराजोऽवतारितः 021e
यस्मात्तण्डिः पुरा प्राह तेन तण्डिकृतोऽभवत् 022a
स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः 022c
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् 023a
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् 023c
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् 024a
तेजसामपि यत्तेजस्तपसामपि यत्तपः 024c
शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः 025a
दान्तानामपि यो दान्तो धीमतामपि या च धीः 025c
देवानामपि यो देवो मुनीनामपि यो मुनिः 026a
यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः 026c
रुद्राणामपि यो रुद्रः प्रभुः प्रभवतामपि 027a
योगिनामपि यो योगी कारणानां च कारणम् 027c
यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः 028a
सर्वभूतात्मभूतस्य हरस्यामिततेजसः 028c
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु 029a
यच्छ्रुत्वा मनुजश्रेष्ठ सर्वान्कामानवाप्स्यसि 029c
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः 030a
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः 030c
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः 031a
हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः 031c
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः 032a
श्मशानचारी भगवान्खचरो गोचरोऽर्दनः 032c
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः 033a
उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः 033c
महारूपो महाकायः सर्वरूपो महायशाः 034a
महात्मा सर्वभूतश्च विरूपो वामनो मनुः 034c
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः 035a
पवित्रश्च महांश्चैव नियमो नियमाश्रयः 035c
सर्वकर्मा स्वयम्भूश्च आदिरादिकरो निधिः 036a
सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः 036c
चन्द्रसूर्यगतिः केतुर्ग्रहो ग्रहपतिर्वरः 037a
अद्रिरद्र्यालयः कर्ता मृगबाणार्पणोऽनघः 037c
महातपा घोरतपा अदीनो दीनसाधकः 038a
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः 038c
योगी योज्यो महाबीजो महारेता महातपाः 039a
सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः 039c
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः 040a
विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः 040c
गणकर्ता गणपतिर्दिग्वासाः काम्य एव च 041a
पवित्रं परमं मन्त्रः सर्वभावकरो हरः 041c
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् 042a
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् 042c
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः 043a
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा 043c
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च 044a
सृगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः 044c
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि 045a
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः 045c
त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः 046a
अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः 046c
गजहा दैत्यहा लोको लोकधाता गुणाकरः 047a
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः 047c
कालयोगी महानादः सर्ववासश्चतुष्पथः 048a
निशाचरः प्रेतचारी भूतचारी महेश्वरः 048c
बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः 049a
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः 049c
घोरो महातपाः पाशो नित्यो गिरिचरो नभः 050a
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः 050c
अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः 051a
दक्षयज्ञापहारी च सुसहो मध्यमस्तथा 051c
तेजोपहारी बलहा मुदितोऽर्थो जितो वरः 052a
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः 052c
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः 053a
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् 053c
विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः 054a
हुताशनसहायश्च प्रशान्तात्मा हुताशनः 054c
उग्रतेजा महातेजा जयो विजयकालवित् 055a
ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च 055c
शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली 056a
वैणवी पणवी ताली कालः कालकटङ्कटः 056c
नक्षत्रविग्रहविधिर्गुणवृद्धिर्लयोऽगमः 057a
प्रजापतिर्दिशाबाहुर्विभागः सर्वतोमुखः 057c
विमोचनः सुरगणो हिरण्यकवचोद्भवः 058a
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा 058c
सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः 059a
व्यालरूपो बिलावासी हेममाली तरङ्गवित् 059c
त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः 060a
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः 060c
साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः 061a
प्रस्कन्दनो विभागश्च अतुल्यो यज्ञभागवित् 061c
सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः 062a
हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः 062c
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः 063a
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः 063c
मुख्योऽमुख्यश्च देहश्च देहर्द्धिः सर्वकामदः 064a
सर्वकालप्रसादश्च सुबलो बलरूपधृक् 064c
आकाशनिधिरूपश्च निपाती उरगः खगः 065a
रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी 065c
वसुवेगो महावेगो मनोवेगो निशाचरः 066a
सर्वावासी श्रियावासी उपदेशकरो हरः 066c
मुनिरात्मपतिर्लोके सम्भोज्यश्च सहस्रदः 067a
पक्षी च पक्षिरूपी च अतिदीप्तो विशां पतिः 067c
उन्मादो मदनाकारो अर्थार्थकररोमशः 068a
वामदेवश्च वामश्च प्राग्दक्षिण्यश्च वामनः 068c
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः 069a
भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः 069c
महासेनो विशाखश्च षष्टिभागो गवां पतिः 070a
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च 070c
ऋतुरृतुकरः कालो मधुर्मधुकरोऽचलः 071a
वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः 071c
ब्रह्मचारी लोकचारी सर्वचारी सुचारवित् 072a
ईशान ईश्वरः कालो निशाचारी पिनाकधृक् 072c
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः 073a
भगस्याक्षिनिहन्ता च कालो ब्रह्मविदां वरः 073c
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च 074a
लिङ्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः 074c
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः 075a
इतिहासकरः कल्पो गौतमोऽथ जलेश्वरः 075c
दम्भो ह्यदम्भो वैदम्भो वश्यो वश्यकरः कविः 076a
लोककर्ता पशुपतिर्महाकर्ता महौषधिः 076c
अक्षरं परमं ब्रह्म बलवाञ्शक्र एव च 077a
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः 077c
बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजित् 078a
वेदकारः सूत्रकारो विद्वान्समरमर्दनः 078c
महामेघनिवासी च महाघोरो वशीकरः 079a
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः 079c
वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः 080a
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः 080c
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः 081a
उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा 081c
कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्वदेहिनाम् 082a
महापादो महाहस्तो महाकायो महायशाः 082c
महामूर्धा महामात्रो महानेत्रो दिगालयः 083a
महादन्तो महाकर्णो महामेढ्रो महाहनुः 083c
महानासो महाकम्बुर्महाग्रीवः श्मशानधृक् 084a
महावक्षा महोरस्को अन्तरात्मा मृगालयः 084c
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः 085a
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः 085c
महानखो महारोमा महाकेशो महाजटः 086a
असपत्नः प्रसादश्च प्रत्ययो गिरिसाधनः 086c
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः 087a
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः 087c
मण्डली मेरुधामा च देवदानवदर्पहा 088a
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः 088c
यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा 089a
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः 089c
उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः 090a
नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः 090c
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः 091a
नक्तं कलिश्च कालश्च मकरः कालपूजितः 091c
सगणो गणकारश्च भूतभावनसारथिः 092a
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः 092c
अगणश्चैव लोपश्च महात्मा सर्वपूजितः 093a
शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः 093c
आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्वरः 094a
शाखो विशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चयः 094c
कपिलोऽकपिलः शूर आयुश्चैव परोऽपरः 095a
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः 095c
परश्वधायुधो देव अर्थकारी सुबान्धवः 096a
तुम्बवीणी महाकोप ऊर्ध्वरेता जलेशयः 096c
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः 097a
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः 097c
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः 098a
स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः 098c
बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः 099a
अमरेशो महादेवो विश्वदेवः सुरारिहा 099c
अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा 100a
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः 100c
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा 101a
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः 101c
प्रभावः सर्वगो वायुरर्यमा सविता रविः 102a
उदग्रश्च विधाता च मान्धाता भूतभावनः 102c
रतितीर्थश्च वाग्मी च सर्वकामगुणावहः 103a
पद्मगर्भो महागर्भश्चन्द्रवक्त्रो मनोरमः 103c
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी 104a
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः 104c
सर्वाशयो दर्भशायी सर्वेषां प्राणिनां पतिः 105a
देवदेवमुखोऽसक्तः सदसत्सर्वरत्नवित् 105c
कैलासशिखरावासी हिमवद्गिरिसंश्रयः 106a
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः 106c
वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः 107a
सारग्रीवो महाजत्रुरलोलश्च महौषधः 107c
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः 108a
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः 108c
प्रभावात्मा जगत्कालस्तालो लोकहितस्तरुः 109a
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः 109c
भूतालयो भूतपतिरहोरात्रमनिन्दितः 110a
वाहिता सर्वभूतानां निलयश्च विभुर्भवः 110c
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः 111a
धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः 111c
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः 112a
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् 112c
प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः 113a
गन्धारश्च सुरालश्च तपःकर्मरतिर्धनुः 113c
महागीतो महानृत्तो ह्यप्सरोगणसेवितः 114a
महाकेतुर्धनुर्धातुर्नैकसानुचरश्चलः 114c
आवेदनीय आवेशः सर्वगन्धसुखावहः 115a
तोरणस्तारणो वायुः परिधावति चैकतः 115c
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः 116a
नित्य आत्मसहायश्च देवासुरपतिः पतिः 116c
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः 117a
आषाढश्च सुषाढश्च ध्रुवो हरिहणो हरः 117c
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः 118a
शिरोहारी विमर्षश्च सर्वलक्षणभूषितः 118c
अक्षश्च रथयोगी च सर्वयोगी महाबलः 119a
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः 119c
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः 120a
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् 120c
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः 121a
आरोहणो निरोहश्च शैलहारी महातपाः 121c
सेनाकल्पो महाकल्पो युगायुगकरो हरिः 122a
युगरूपो महारूपः पवनो गहनो नगः 122c
न्यायनिर्वापणः पादः पण्डितो ह्यचलोपमः 123a
बहुमालो महामालः सुमालो बहुलोचनः 123c
विस्तारो लवणः कूपः कुसुमः सफलोदयः 124a
वृषभो वृषभाङ्काङ्गो मणिबिल्वो जटाधरः 124c
इन्दुर्विसर्गः सुमुखः सुरः सर्वायुधः सहः 125a
निवेदनः सुधाजातः सुगन्धारो महाधनुः 125c
गन्धमाली च भगवानुत्थानः सर्वकर्मणाम् 126a
मन्थानो बहुलो बाहुः सकलः सर्वलोचनः 126c
तरस्ताली करस्ताली ऊर्ध्वसंहननो वहः 127a
छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान् 127c
मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः 128a
हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात् 128c
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः 129a
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् 129c
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः 130a
ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक् 130c
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः 131a
गभस्तिर्ब्रह्मकृद्ब्रह्मा ब्रह्मविद्ब्राह्मणो गतिः 131c
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः 132a
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः 132c
चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणो नरः 133a
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक् 133c
उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः 134a
वरो वराहो वरदो वरेशः सुमहास्वनः 134c
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः 135a
प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक् 135c
सर्वपार्श्वसुतस्तार्क्ष्यो धर्मसाधारणो वरः 136a
चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः 136c
साध्यर्षिर्वसुरादित्यो विवस्वान्सविता मृडः 137a
व्यासः सर्वस्य सङ्क्षेपो विस्तरः पर्ययो नयः 137c
ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः 138a
कला काष्ठा लवो मात्रा मुहूर्तोऽहः क्षपाः क्षणाः 138c
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः 139a
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः 139c
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् 140a
निर्वाणं ह्लादनं चैव ब्रह्मलोकः परा गतिः 140c
देवासुरविनिर्माता देवासुरपरायणः 141a
देवासुरगुरुर्देवो देवासुरनमस्कृतः 141c
देवासुरमहामात्रो देवासुरगणाश्रयः 142a
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः 142c
देवातिदेवो देवर्षिर्देवासुरवरप्रदः 143a
देवासुरेश्वरो देवो देवासुरमहेश्वरः 143c
सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः 144a
उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोम्बरः 144c
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः 145a
विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः 145c
प्रयुक्तः शोभनो वज्र ईशानः प्रभुरव्ययः 146a
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः 146c
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः 147a
अभिरामः सुरगणो विरामः सर्वसाधनः 147c
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः 148a
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः 148c
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः 149a
व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः 149c
विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत् 150a
यथाप्रधानं भगवानिति भक्त्या स्तुतो मया 150c
यं न ब्रह्मादयो देवा विदुर्यं न महर्षयः 151a
तं स्तव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् 151c
भक्तिमेव पुरस्कृत्य मया यज्ञपतिर्वसुः 152a
ततोऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः 152c
शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः 153a
नित्ययुक्तः शुचिर्भूत्वा प्राप्नोत्यात्मानमात्मना 153c
एतद्धि परमं ब्रह्म स्वयं गीतं स्वयम्भुवा 154a
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् 154c
स्तूयमानो महादेवः प्रीयते चात्मनामभिः 155a
भक्तानुकम्पी भगवानात्मसंस्थान्करोति तान् 155c
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः 156a
आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः 156c
जाग्रतश्च स्वपन्तश्च व्रजन्तः पथि संस्थिताः 157a
स्तुवन्ति स्तूयमानाश्च तुष्यन्ति च रमन्ति च 157c
जन्मकोटिसहस्रेषु नानासंसारयोनिषु 157e
जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते 158a
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः 158c
कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः 159a
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते 159c
निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी 160a
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् 160c
यया यान्ति परां सिद्धिं तद्भावगतचेतसः 160e
ये सर्वभावोपगताः परत्वेनाभवन्नराः 161a
प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् 161c
एवमन्ये न कुर्वन्ति देवाः संसारमोचनम् 162a
मनुष्याणां महादेवादन्यत्रापि तपोबलात् 162c
इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः 163a
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना 163c
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् 164a
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे 164c
मृत्युः प्रोवाच रुद्राणां रुद्रेभ्यस्तण्डिमागमत् 165a
महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि 165c
तण्डिः प्रोवाच शुक्राय गौतमायाह भार्गवः 166a
वैवस्वताय मनवे गौतमः प्राह माधव 166c
नारायणाय साध्याय मनुरिष्टाय धीमते 167a
यमाय प्राह भगवान्साध्यो नारायणोऽच्युतः 167c
नाचिकेताय भगवानाह वैवस्वतो यमः 168a
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत 168c
मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन 169a
तवाप्यहममित्रघ्न स्तवं दद्म्यद्य विश्रुतम् 169c
स्वर्ग्यमारोग्यमायुष्यं धन्यं बल्यं तथैव च 169e
न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः 170a
पिशाचा यातुधानाश्च गुह्यका भुजगा अपि 170c
यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः 171a
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् 171c