कृष्ण उवाच 001
मूर्ध्ना निपत्य नियतस्तेजःसन्निचये ततः 001a
परमं हर्षमागम्य भगवन्तमथाब्रुवम् 001c
धर्मे दृढत्वं युधि शत्रुघातं यशस्तथाग्र्यं परमं बलं च 002a
योगप्रियत्वं तव सन्निकर्षं वृणे सुतानां च शतं शतानि 002c
एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः 003a
ततो मां जगतो माता धरणी सर्वपावनी 004a
उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः 004c
दत्तो भगवता पुत्रः साम्बो नाम तवानघ 005a
मत्तोऽप्यष्टौ वरानिष्टान्गृहाण त्वं ददामि ते 005c
प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन 005e
द्विजेष्वकोपं पितृतः प्रसादं शतं सुतानामुपभोगं परं च 006a
कुले प्रीतिं मातृतश्च प्रसादं शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् 006c
देव्युवाच 007
एवं भविष्यत्यमरप्रभाव नाहं मृषा जातु वदे कदाचित् 007a
भार्यासहस्राणि च षोडशैव तासु प्रियत्वं च तथाक्षयत्वम् 007c
प्रीतिं चाग्र्यां बान्धवानां सकाशाद्ददामि ते वपुषः काम्यतां च 008a
भोक्ष्यन्ते वै सप्ततिर्वै शतानि गृहे तुभ्यमतिथीनां च नित्यम् 008c
वासुदेव उवाच 009
एवं दत्त्वा वरान्देवो मम देवी च भारत 009a
अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज 009c
एतदत्यद्भुतं सर्वं ब्राह्मणायातितेजसे 010a
उपमन्यवे मया कृत्स्नमाख्यातं कौरवोत्तम 010c
नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत 011a
नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे 011c
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः 011e
ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः 012a
दश वर्षसहस्राणि तेन देवः समाधिना 012c
आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय 012e
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् 013a
पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर 013c
अत्युग्रं तेजसां तेजस्तपसां परमं तपः 013e
विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत 014a
भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते 014c
जातीमरणभीरूणां यतीनां यततां विभो 015a
निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय 015c
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः 016a
न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् 016c
त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते 017a
कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि 017c
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः 018a
अधिपौरुषमध्यात्ममधिभूताधिदैवतम् 018c
अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि 018e
त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि 019a
विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् 019c
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः 020a
द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च 020c
त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि 021a
सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि 021c
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः 022a
वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः 022c
भूर्वायुर्ज्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः 023a
कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च 023c
इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्ध्रुवम् 024a
विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि 024c
यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् 025a
या गतिः साङ्ख्ययोगानां स भवान्नात्र संशयः 025c
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् 026a
यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः 026c
अहो मूढाः स्म सुचिरमिमं कालमचेतसः 027a
यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः 027c
सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया 028a
भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते 028c
देवासुरमनुष्याणां यच्च गुह्यं सनातनम् 029a
गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि 029c
स एष भगवान्देवः सर्वकृत्सर्वतोमुखः 030a
सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता 030c
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः 031a
देहकृद्देहभृद्देही देहभुग्देहिनां गतिः 031c
अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम् 032a
अपुनर्मारकामानां या गतिः सोऽयमीश्वरः 032c
अयं च सर्वभूतानां शुभाशुभगतिप्रदः 033a
अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु 033c
अयं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः 034a
अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः 034c
भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः 035a
विभर्ति देवस्तनुभिरष्टाभिश्च ददाति च 035c
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् 036a
अस्मिंश्च प्रलयं याति अयमेकः सनातनः 036c
अयं स सत्यकामानां सत्यलोकः परः सताम् 037a
अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम् 037c
अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः 038a
देवासुरमनुष्याणां न प्रकाशो भवेदिति 038c
तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् 039a
मोहिताः खल्वनेनैव हृच्छयेन प्रवेशिताः 039c
ये चैनं सम्प्रपद्यन्ते भक्तियोगेन भारत 040a
तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः 040c
यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते 041a
यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते 041c
यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः 042a
प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षयावहाम् 042c
यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः 043a
सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः 043c
यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् 044a
प्राणायामपरा नित्यं यं विशन्ति जपन्ति च 044c
अयं स देवयानानामादित्यो द्वारमुच्यते 045a
अयं च पितृयानानां चन्द्रमा द्वारमुच्यते 045c
एष कालगतिश्चित्रा संवत्सरयुगादिषु 046a
भावाभावौ तदात्वे च अयने दक्षिणोत्तरे 046c
एवं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः 047a
वरयामास पुत्रत्वे नीललोहितसञ्ज्ञितम् 047c
ऋग्भिर्यमनुशंसन्ति तन्त्रे कर्मणि बह्वृचः 048a
यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे 048c
सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः 049a
यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः 049c
रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः 050a
ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् 050c
मृत्युर्यमो हुताशश्च कालः संहारवेगवान् 051a
कालस्य परमा योनिः कालश्चायं सनातनः 051c
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना 052a
ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च 052c
प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् 053a
ब्रह्मादि स्तम्बपर्यन्तं भूतादि सदसच्च यत् 053c
अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम् 054a
अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते 054c
एतत्परममानन्दं यत्तच्छाश्वतमेव च 055a
एषा गतिर्विरक्तानामेष भावः परः सताम् 055c
एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् 056a
शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् 056c
इयं सा परमा काष्ठा इयं सा परमा कला 057a
इयं सा परमा सिद्धिरियं सा परमा गतिः 057c
इयं सा परमा शान्तिरियं सा निर्वृतिः परा 058a
यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त वेधसः 058c
इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः 059a
अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया 059c
यजतां यज्ञकामानां यज्ञैर्विपुलदक्षिणैः 060a
या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन 060c
जप्यहोमव्रतैः कृच्छ्रैर्नियमैर्देहपातनैः 061a
तप्यतां या गतिर्देव वैराजे सा गतिर्भवान् 061c
कर्मन्यासकृतानां च विरक्तानां ततस्ततः 062a
या गतिर्ब्रह्मभवने सा गतिस्त्वं सनातन 062c
अपुनर्मारकामानां वैराग्ये वर्ततां परे 063a
विकृतीनां लयानां च सा गतिस्त्वं सनातन 063c
ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना 064a
कैवल्या या गतिर्देव परमा सा गतिर्भवान् 064c
वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः 065a
त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो 065c
इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम् 066a
जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ 066c
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः 067a
न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः 067c
अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः 068a
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः 068c
ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव 069a
मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः 069c
कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे 070a
प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढास्तु मे 070c
एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः 071a
स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत 071c
अन्तर्हिते भगवति सानुगे यादवेश्वर 072a
ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह 072c
यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम 073a
नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये 073c
दश नामसहस्राणि वेदेष्वाह पितामहः 074a
शर्वस्य शास्त्रेषु तथा दश नामशतानि वै 074c
गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत 075a
देवप्रसादाद्देवेश पुरा प्राह महात्मने 075c