उपमन्युरुवाच 001
एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः 001a
कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव 001c
त्वादृशेन हि देवानां श्लाघनीयः समागमः 002a
ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत 002c
जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शङ्करम् 002e
कृष्ण उवाच 003
अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने 003a
द्रक्ष्ये दितिजसङ्घानां मर्दनं त्रिदशेश्वरम् 003c
दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि 004a
दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा 004c
मासमेकं फलाहारो द्वितीयं सलिलाशनः 005a
तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः 005c
एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः 006a
तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत 006c
तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन 007a
इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् 007c
नीलशैलचयप्रख्यं बलाकाभूषितं घनम् 007e
तमास्थितश्च भगवान्देव्या सह महाद्युतिः 008a
तपसा तेजसा कान्त्या दीप्तया सह भार्यया 008c
रराज भगवांस्तत्र देव्या सह महेश्वरः 009a
सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा 009c
संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः 010a
अपश्यं देवसङ्घानां गतिमार्तिहरं हरम् 010c
किरीटिनं गदिनं शूलपाणिं व्याघ्राजिनं जटिलं दण्डपाणिम् 011a
पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं शुभाङ्गदं व्यालयज्ञोपवीतम् 011c
दिव्यां मालामुरसानेकवर्णां समुद्वहन्तं गुल्फदेशावलम्बाम् 012a
चन्द्रं यथा परिविष्टं ससन्ध्यं वर्षात्यये तद्वदपश्यमेनम् 012c
प्रमथानां गणैश्चैव समन्तात्परिवारितम् 013a
शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् 013c
एकादश तथा चैनं रुद्राणां वृषवाहनम् 014a
अस्तुवन्नियतात्मानः कर्मभिः शुभकर्मिणम् 014c
आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ 015a
विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन् 015c
शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ 016a
ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके 016c
योगीश्वराः सुबहवो योगदं पितरं गुरुम् 017a
ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै 017c
पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा 018a
मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः 018c
मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः 019a
दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा 019c
सनत्कुमारो वेदाश्च इतिहासास्तथैव च 020a
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः 020c
मनवः सप्तसोमश्च अथर्वा सबृहस्पतिः 021a
भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च 021c
छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः 022a
यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर 022c
प्रजानां पतयः सर्वे सरितः पन्नगा नगाः 023a
देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः 023c
सहस्राणि मुनीनां च अयुतान्यर्बुदानि च 024a
नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः 024c
गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः 025a
दिव्यतानेन गायन्तः स्तुवन्ति भवमद्भुतम् 025c
विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा 025e
सर्वाणि चैव भूतानि स्थावराणि चराणि च 026a
नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् 026c
पुरस्ताद्विष्ठितः शर्वो ममासीत्त्रिदशेश्वरः 026e
पुरस्ताद्विष्ठितं दृष्ट्वा ममेशानं च भारत 027a
सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत 027c
ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा 028a
ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च 028c
शिरसा वन्दिते देवे देवी प्रीता उमाभवत् 029a
ततोऽहमस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः 029c
नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति 030a
तपश्च सत्त्वं च रजस्तमश्च त्वामेव सत्यं च वदन्ति सन्तः 030c
त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः 031a
धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः 031c
त्वत्तो जातानि भूतानि स्थावराणि चराणि च 032a
त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि 032c
ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं ये वायवः सप्त तथैव चाग्निः 033a
ये वा दिविस्था देवताश्चापि पुंसां तस्मात्परं त्वामृषयो वदन्ति 033c
वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः 034a
यज्ञोपगं च यत्किञ्चिद्भगवांस्तदसंशयम् 034c
इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये 035a
ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा 035c
कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः 036a
आधयो व्याधयश्चैव भगवंस्तनयास्तव 036c
कृतिर्विकारः प्रलयः प्रधानं प्रभवोऽव्ययः 037a
मनसः परमा योनिः स्वभावश्चापि शाश्वतः 037c
अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः 037e
आदिर्गुणानां सर्वेषां भवान्वै जीवनाश्रयः 038a
महानात्मा मतिर्ब्रह्मा विश्वः शम्भुः स्वयम्भुवः 038c
बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः 039a
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे 039c
त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति 040a
हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः 040c
सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः 041a
सर्वतःश्रुतिमाल्ँलोके सर्वमावृत्य तिष्ठसि 041c
फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु 042a
त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः 042c
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः 042e
त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये 043a
ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः 043c
यस्त्वां ध्रुवं वेदयते गुहाशयं प्रभुं पुराणं पुरुषं विश्वरूपम् 044a
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति 044c
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः 045a
प्रधानविधियोगस्थस्त्वामेव विशते बुधः 045c
एवमुक्ते मया पार्थ भवे चार्तिविनाशने 046a
चराचरं जगत्सर्वं सिंहनादमथाकरोत् 046c
सविप्रसङ्घाश्च सुरासुराश्च नागाः पिशाचाः पितरो वयांसि 047a
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव तथा प्रणेमुः 047c
मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् 048a
राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ 048c
निरीक्ष्य भगवान्देवीमुमां मां च जगद्धितः 049a
शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शङ्करः 049c
विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन् 050a
क्रियतामात्मनः श्रेयः प्रीतिर्हि परमा त्वयि 050c
वृणीष्वाष्टौ वरान्कृष्ण दातास्मि तव सत्तम 051a
ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान् 051c