युधिष्ठिर उवाच 001
पितामहेशाय विभो नामान्याचक्ष्व शम्भवे 001a
बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः 001c
भीष्म उवाच 002
सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि 002a
शिवाय विश्वरूपाय यन्मां पृच्छद्युधिष्ठिरः 002c
नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना 003a
निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराभवत् 003c
द्वैपायनप्रभृतयस्तथैवेमे तपोधनाः 004a
ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव 004c
ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजेऽग्नये 005a
महाभाग्यं विभो ब्रूहि मुण्डिनेऽथ कपर्दिने 005c
वासुदेव उवाच 006
न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः 006a
हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः 007a
न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः 007c
स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः 007e
तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान् 008a
भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् 008c
वैशम्पायन उवाच 009
एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः 009a
उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः 009c
वासुदेव उवाच 010
शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर 010a
त्वं चापगेय नामानि निशामय जगत्पतेः 010c
यदवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम् 011a
यथा च भगवान्दृष्टो मया पूर्वं समाधिना 011c
शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता 012a
अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् 012c
प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान् 013a
पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर 013c
शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम् 014a
आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् 014c
न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किञ्चन 015a
लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह 015c
त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता 016a
आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः 016c
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः 017a
चारुश्रवाश्चारुयशाः प्रद्युम्नः शम्भुरेव च 017c
यथा ते जनिताः पुत्रा रुक्मिण्याश्चारुविक्रमाः 018a
तथा ममापि तनयं प्रयच्छ बलशालिनम् 018c
इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम् 019a
अनुजानीहि मां राज्ञि करिष्ये वचनं तव 019c
सा च मामब्रवीद्गच्छ विजयाय शिवाय च 019e
ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः 020a
क्षेत्रौषध्यो यज्ञवाहाच्छन्दांस्यृषिगणा धरा 020c
समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः 021a
देवपत्न्यो देवकन्या देवमातर एव च 021c
मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः 022a
सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः 022c
क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः 023a
रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् 023c
अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ 023e
एवं कृतस्वस्त्ययनस्तयाहं तामभ्यनुज्ञाय कपीन्द्रपुत्रीम् 024a
पितुः समीपे नरसत्तमस्य मातुश्च राज्ञश्च तथाहुकस्य 024c
तमर्थमावेद्य यदब्रवीन्मां विद्याधरेन्द्रस्य सुता भृशार्ता 025a
तानभ्यनुज्ञाय तदातिदुःखाद्गदं तथैवातिबलं च रामम् 025c
प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम् 026a
सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् 026c
तत्राहमद्भुतान्भावानपश्यं गिरिसत्तमे 027a
क्षेत्रं च तपसां श्रेष्ठं पश्याम्याश्रममुत्तमम् 027c
दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः 028a
पूजितं देवगन्धर्वैर्ब्राह्म्या लक्ष्म्या समन्वितम् 028c
धवककुभकदम्बनारिकेलैः कुरबककेतकजम्बुपाटलाभिः 029a
वटवरुणकवत्सनाभबिल्वैः सरलकपित्थप्रियालसालतालैः 029c
बदरीकुन्दपुन्नागैरशोकाम्रातिमुक्तकैः 030a
भल्लातकैर्मधूकैश्च चम्पकैः पनसैस्तथा 030c
वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम् 031a
पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् 031c
नानाशकुनिसम्भोज्यैः फलैर्वृक्षैरलङ्कृतम् 032a
यथास्थानविनिक्षिप्तैर्भूषितं वनराजिभिः 032c
रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम् 033a
कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् 033c
पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् 033e
नानापुष्परजोमिश्रो गजदानाधिवासितः 034a
दिव्यस्त्रीगीतबहुलो मारुतोऽत्र सुखो ववौ 034c
धारानिनादैर्विहगप्रणादैः शुभैस्तथा बृंहितैः कुञ्जराणाम् 035a
गीतैस्तथा किन्नराणामुदारैः शुभैः स्वनैः सामगानां च वीर 035c
अचिन्त्यं मनसाप्यन्यैः सरोभिः समलङ्कृतम् 036a
विशालैश्चाग्निशरणैर्भूषितं कुशसंवृतम् 036c
विभूषितं पुण्यपवित्रतोयया सदा च जुष्टं नृप जह्नुकन्यया 037a
महात्मभिर्धर्मभृतां वरिष्ठैर्महर्षिभिर्भूषितमग्निकल्पैः 037c
वाय्वाहारैरम्बुपैर्जप्यनित्यैः सम्प्रक्षालैर्यतिभिर्ध्याननित्यैः 038a
धूमाशनैरूष्मपैः क्षीरपैश्च विभूषितं ब्राह्मणेन्द्रैः समन्तात् 038c
गोचारिणोऽथाश्मकुट्टा दन्तोलूखलिनस्तथा 039a
मरीचिपाः फेनपाश्च तथैव मृगचारिणः 039c
सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोन्वितान् 040a
पश्यन्नुत्फुल्लनयनः प्रवेष्टुमुपचक्रमे 040c
सुपूजितं देवगणैर्महात्मभिः शिवादिभिर्भारत पुण्यकर्मभिः 041a
रराज तच्चाश्रममण्डलं सदा दिवीव राजन्रविमण्डलं यथा 041c
क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत् 042a
प्रभावाद्दीप्ततपसः सन्निकर्षगुणान्विताः 042c
तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे 043a
सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः 043c
नानानियमविख्यातैरृषिभिश्च महात्मभिः 044a
प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् 044c
तेजसा तपसा चैव दीप्यमानं यथानलम् 045a
शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम् 045c
शिरसा वन्दमानं मामुपमन्युरभाषत 045e
स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः 046a
यत्पूज्यः पूजयसि नो द्रष्टव्यो द्रष्टुमिच्छसि 046c
तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु 047a
धर्मे च शिष्यवर्गे च समपृच्छमनामयम् 047c
ततो मां भगवानाह साम्ना परमवल्गुना 048a
लप्स्यसे तनयं कृष्ण आत्मतुल्यमसंशयम् 048c
तपः सुमहदास्थाय तोषयेशानमीश्वरम् 049a
इह देवः सपत्नीकः समाक्रीडत्यधोक्षज 049c
इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा 050a
तपसा ब्रह्मचर्येण सत्येन च दमेन च 050c
तोषयित्वा शुभान्कामान्प्राप्नुवंस्ते जनार्दन 050e
तेजसां तपसां चैव निधिः स भगवानिह 051a
शुभाशुभान्वितान्भावान्विसृजन्सङ्क्षिपन्नपि 051c
आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् 051e
हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः 052a
तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम् 052c
तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः 053a
महादेववराच्छक्रं वर्षार्बुदमयोधयत् 053c
विष्णोश्चक्रं च तद्घोरं वज्रमाखण्डलस्य च 054a
शीर्णं पुराभवत्तात ग्रहस्याङ्गेषु केशव 054c
अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा 055a
शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम् 055c
तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतामदात् 056a
शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् 056c
ममैवानुचरो नित्यं भवितासीति चाब्रवीत् 056e
तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः 057a
कुशद्वीपं च स ददौ राज्येन भगवानजः 057c
तथा शतमुखो नाम धात्रा सृष्टो महासुरः 058a
येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः 058c
तं प्राह भगवांस्तुष्टः किं करोमीति शङ्करः 058e
तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः 059a
बलं च दैवतश्रेष्ठ शाश्वतं सम्प्रयच्छ मे 059c
स्वायम्भुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा 060a
आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि 060c
तस्य देवोऽददत्पुत्रान्सहस्रं क्रतुसम्मितान् 061a
योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः 061c
वालखिल्या मघवता अवज्ञाताः पुरा किल 062a
तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत् 062c
तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः 063a
सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ 063c
महादेवस्य रोषाच्च आपो नष्टाः पुराभवन् 064a
ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः 064c
अत्रेर्भार्यापि भर्तारं सन्त्यज्य ब्रह्मवादिनी 065a
नाहं तस्य मुनेर्भूयो वशगा स्यां कथञ्चन 065c
इत्युक्त्वा सा महादेवमगच्छच्छरणं किल 065e
निराहारा भयादत्रेस्त्रीणि वर्षशतान्यपि 066a
अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा 066c
तामब्रवीद्धसन्देवो भविता वै सुतस्तव 067a
वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् 067c
शाकल्यः संशितात्मा वै नव वर्षशतान्यपि 068a
आराधयामास भवं मनोयज्ञेन केशव 068c
तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि 069a
वत्साक्षया च ते कीर्तिस्त्रैलोक्ये वै भविष्यति 069c
अक्षयं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम् 069e
सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे 070a
इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ 070c
तमाह भगवान्रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ 071a
ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः 071c
मयापि च यथा दृष्टो देवदेवः पुरा विभुः 072a
साक्षात्पशुपतिस्तात तच्चापि शृणु माधव 072c
यदर्थं च महादेवः प्रयतेन मया पुरा 073a
आराधितो महातेजास्तच्चापि शृणु विस्तरम् 073c
यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात् 074a
तत्सर्वमखिलेनाद्य कथयिष्यामि तेऽनघ 074c
पुरा कृतयुगे तात ऋषिरासीन्महायशाः 075a
व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः 075c
तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः 075e
कस्यचित्त्वथ कालस्य धौम्येन सह माधव 076a
आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् 076c
तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी 077a
लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् 077c
ततः पिष्टं समालोड्य तोयेन सह माधव 078a
आवयोः क्षीरमित्येव पानार्थमुपनीयते 078c
अथ गव्यं पयस्तात कदाचित्प्राशितं मया 079a
ततः पिष्टरसं तात न मे प्रीतिमुदावहत् 079c
ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा 080a
क्षीरोदनसमायुक्तं भोजनं च प्रयच्छ मे 080c
ततो मामब्रवीन्माता दुःखशोकसमन्विता 081a
पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव 081c
कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् 082a
वने निवसतां नित्यं कन्दमूलफलाशिनाम् 082c
अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम् 083a
कुतः क्षीरोदनं वत्स सुखानि वसनानि च 083c
तं प्रपद्य सदा वत्स सर्वभावेन शङ्करम् 084a
तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक 084c
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् 085a
मम भक्तिर्महादेवे नैष्ठिकी समपद्यत 085c
ततोऽहं तप आस्थाय तोषयामास शङ्करम् 086a
दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः 086c
एकं वर्षशतं चैव फलाहारस्तदाभवम् 087a
द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः 087c
शतानि सप्त चैवाहं वायुभक्षस्तदाभवम् 087e
ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः 088a
शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः 088c
सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः 088e
सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् 089a
आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम् 089c
समास्थितश्च भगवान्दीप्यमानः स्वतेजसा 090a
आजगाम किरीटी तु हारकेयूरभूषितः 090c
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 091a
सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितः 091c
ततो मामाह देवेन्द्रः प्रीतस्तेऽहं द्विजोत्तम 092a
वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते 092c
शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम् 093a
अब्रुवं च तदा कृष्ण देवराजमिदं वचः 093c
नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात् 094a
महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते 094c
पशुपतिवचनाद्भवामि सद्यः कृमिरथ वा तरुरप्यनेकशाखः 095a
अपशुपतिवरप्रसादजा मे त्रिभुवनराज्यविभूतिरप्यनिष्टा 095c
अपि कीटः पतङ्गो वा भवेयं शङ्कराज्ञया 096a
न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये 096c
यावच्छशाङ्कशकलामलबद्धमौलिर्न प्रीयते पशुपतिर्भगवान्ममेशः 097a
तावज्जरामरणजन्मशताभिघातैर्दुःखानि देहविहितानि समुद्वहामि 097c
दिवसकरशशाङ्कवह्निदीप्तं त्रिभुवनसारमपारमाद्यमेकम् 098a
अजरममरमप्रसाद्य रुद्रं जगति पुमानिह को लभेत शान्तिम् 098c
शक्र उवाच 099
कः पुनस्तव हेतुर्वै ईशे कारणकारणे 099a
येन देवादृतेऽन्यस्मात्प्रसादं नाभिकाङ्क्षसि 099c
उपमन्युरुवाच 100
हेतुभिर्वा किमन्यैस्ते ईशः कारणकारणम् 100a
न शुश्रुम यदन्यस्य लिङ्गमभ्यर्च्यते सुरैः 100c
कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम् 101a
अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः 101c
यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः 102a
अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः 102c
तस्माद्वरमहं काङ्क्षे निधनं वापि कौशिक 103a
गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन 103c
काममेष वरो मेऽस्तु शापो वापि महेश्वरात् 104a
न चान्यां देवतां काङ्क्षे सर्वकामफलान्यपि 104c
एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः 105a
न प्रसीदति मे रुद्रः किमेतदिति चिन्तयन् 105c
अथापश्यं क्षणेनैव तमेवैरावतं पुनः 105e
हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम् 106a
वृषरूपधरं साक्षात्क्षीरोदमिव सागरम् 106c
कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् 107a
जाम्बूनदेन दाम्ना च सर्वतः समलङ्कृतम् 107c
रक्ताक्षं सुमहानासं सुकर्णं सुकटीतटम् 108a
सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् 108c
ककुदं तस्य चाभाति स्कन्धमापूर्य विष्ठितम् 109a
तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् 109c
तमास्थितश्च भगवान्देवदेवः सहोमया 110a
अशोभत महादेवः पौर्णमास्यामिवोडुराट् 110c
तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् 111a
सहस्रमिव सूर्याणां सर्वमावृत्य तिष्ठति 111c
ईश्वरः सुमहातेजाः संवर्तक इवानलः 112a
युगान्ते सर्वभूतानि दिधक्षुरिव चोद्यतः 112c
तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः 113a
पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम् 113c
मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश 114a
प्रशान्तं च क्षणेनैव देवदेवस्य मायया 114c
अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् 115a
सौरभेयगतं सौम्यं विधूममिव पावकम् 115c
सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् 115e
नीलकण्ठं महात्मानमसक्तं तेजसां निधिम् 116a
अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् 116c
शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् 117a
शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम् 117c
गायद्भिर्नृत्यमानैश्च उत्पतद्भिरितस्ततः 118a
वृतं पारिषदैर्दिव्यैरात्मतुल्यपराक्रमैः 118c
बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम् 119a
त्रिभिर्नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यैरिवोदितैः 119c
अशोभत च देवस्य माला गात्रे सितप्रभे 120a
जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता 120c
मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च 121a
मया दृष्टानि गोविन्द भवस्यामिततेजसः 121c
इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः 122a
पिनाकमिति विख्यातं स च वै पन्नगो महान् 122c
सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्बणः 123a
ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः 123c
शरश्च सूर्यसङ्काशः कालानलसमद्युतिः 124a
यत्तदस्त्रं महाघोरं दिव्यं पाशुपतं महत् 124c
अद्वितीयमनिर्देश्यं सर्वभूतभयावहम् 125a
सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम् 125c
एकपादं महादंष्ट्रं सहस्रशिरसोदरम् 126a
सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम् 126c
ब्राह्मान्नारायणादैन्द्रादाग्नेयादपि वारुणात् 127a
यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् 127c
येन तत्त्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा 128a
शरेणैकेन गोविन्द महादेवेन लीलया 128c
निर्ददाह जगत्कृत्स्नं त्रैलोक्यं सचराचरम् 129a
महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः 129c
नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि 130a
तदहं दृष्टवांस्तात आश्चर्याद्भुतमुत्तमम् 130c
गुह्यमस्त्रं परं चापि तत्तुल्याधिकमेव वा 131a
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः 131c
दारयेद्यन्महीं कृत्स्नां शोषयेद्वा महोदधिम् 132a
संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना 132c
यौवनाश्वो हतो येन मान्धाता सबलः पुरा 133a
चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः 133c
महाबलो महावीर्यः शक्रतुल्यपराक्रमः 134a
करस्थेनैव गोविन्द लवणस्येह रक्षसः 134c
तच्छूलमतितीक्ष्णाग्रं सुभीमं लोमहर्षणम् 135a
त्रिशिखां भ्रुकुटीं कृत्वा तर्जमानमिव स्थितम् 135c
विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम् 136a
सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् 136c
दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसन्निधौ 136e
परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा 137a
महादेवेन तुष्टेन क्षत्रियाणां क्षयङ्करः 137c
कार्तवीर्यो हतो येन चक्रवर्ती महामृधे 137e
त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता 138a
जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा 138c
दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रवेष्टितः 139a
अभवच्छूलिनोऽभ्याशे दीप्तवह्निशिखोपमः 139c
असङ्ख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः 140a
प्राधान्यतो मयैतानि कीर्तितानि तवानघ 140c
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः 141a
दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् 141c
वामपार्श्वगतश्चैव तथा नारायणः स्थितः 142a
वैनतेयं समास्थाय शङ्खचक्रगदाधरः 142c
स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः 143a
शक्तिं कण्ठे समादाय द्वितीय इव पावकः 143c
पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् 144a
शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम् 144c
स्वायम्भुवाद्या मनवो भृग्वाद्या ऋषयस्तथा 145a
शक्राद्या देवताश्चैव सर्व एव समभ्ययुः 145c
तेऽभिवाद्य महात्मानं परिवार्य समन्ततः 146a
अस्तुवन्विविधैः स्तोत्रैर्महादेवं सुरास्तदा 146c
ब्रह्मा भवं तदा स्तुन्वन्रथन्तरमुदीरयन् 147a
ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा 147c
गृणञ्शक्रः परं ब्रह्म शतरुद्रीयमुत्तमम् 147e
ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः 148a
अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः 148c
तेषां मध्यगतो देवो रराज भगवाञ्शिवः 149a
शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान् 149c
ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रतम् 149e
नमो देवाधिदेवाय महादेवाय वै नमः 150a
शक्राय शक्ररूपाय शक्रवेषधराय च 150c
नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च 151a
पिनाकपाणये नित्यं खड्गशूलधराय च 151c
नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे 152a
कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च 152c
शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च 153a
शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च 153c
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः 154a
आत्मा च सर्वभूतानां साङ्ख्ये पुरुष उच्यसे 154c
ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः 155a
आश्रमाणां गृहस्थस्त्वमीश्वराणां महेश्वरः 155c
कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यसे 155e
पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः 156a
वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यसे 156c
आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः 157a
ग्राम्याणां गोवृषश्चासि भगवाल्ँलोकपूजितः 157c
आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः 158a
पक्षिणां वैनतेयश्च अनन्तो भुजगेषु च 158c
सामवेदश्च वेदानां यजुषां शतरुद्रियम् 159a
सनत्कुमारो योगीनां साङ्ख्यानां कपिलो ह्यसि 159c
शक्रोऽसि मरुतां देव पितॄणां धर्मराडसि 160a
ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे 160c
क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः 161a
वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः 161c
आदिस्त्वमसि लोकानां संहर्ता काल एव च 161e
यच्चान्यदपि लोकेषु सत्त्वं तेजोधिकं स्मृतम् 162a
तत्सर्वं भगवानेव इति मे निश्चिता मतिः 162c
नमस्ते भगवन्देव नमस्ते भक्तवत्सल 163a
योगेश्वर नमस्तेऽस्तु नमस्ते विश्वसम्भव 163c
प्रसीद मम भक्तस्य दीनस्य कृपणस्य च 164a
अनैश्वर्येण युक्तस्य गतिर्भव सनातन 164c
यं चापराधं कृतवानज्ञानात्परमेश्वर 165a
मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि 165c
मोहितश्चास्मि देवेश तुभ्यं रूपविपर्ययात् 166a
तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर 166c
एवं स्तुत्वाहमीशानं पाद्यमर्घ्यं च भक्तितः 167a
कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् 167c
ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता 168a
पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि 168c
दुन्दुभिश्च ततो दिव्यस्ताडितो देवकिङ्करैः 169a
ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः 169c
ततः प्रीतो महादेवः सपत्नीको वृषध्वजः 170a
अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा 170c
पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः 171a
मयि भक्तिं परां दिव्यामेकभावादवस्थिताम् 171c
एवमुक्तास्ततः कृष्ण सुरास्ते शूलपाणिना 172a
ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् 172c
भगवन्देवदेवेश लोकनाथ जगत्पते 173a
लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः 173c
एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा 174a
आह मां भगवानीशः प्रहसन्निव शङ्करः 174c
वत्सोपमन्यो प्रीतोऽस्मि पश्य मां मुनिपुङ्गव 175a
दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितो ह्यसि 175c
अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम् 176a
तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथेप्शितान् 176c
एवमुक्तस्य चैवाथ महादेवेन मे विभो 177a
हर्षादश्रूण्यवर्तन्त लोमहर्षश्च जायते 177c
अब्रुवं च तदा देवं हर्षगद्गदया गिरा 178a
जानुभ्यामवनिं गत्वा प्रणम्य च पुनः पुनः 178c
अद्य जातो ह्यहं देव अद्य मे सफलं तपः 179a
यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः 179c
यं न पश्यन्ति चाराध्य देवा ह्यमितविक्रमम् 180a
तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया 180c
एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम् 181a
षड्विंशकमिति ख्यातं यत्परात्परमक्षरम् 181c
स एष भगवान्देवः सर्वतत्त्वादिरव्ययः 182a
सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः 182c
योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसम्भवम् 183a
वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः 183c
युगान्ते चैव सम्प्राप्ते रुद्रमङ्गात्सृजत्प्रभुः 183e
स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम् 184a
कालो भूत्वा महातेजाः संवर्तक इवानलः 184c
एष देवो महादेवो जगत्सृष्ट्वा चराचरम् 185a
कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति 185c
सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः 186a
आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः 186c
यदि देयो वरो मह्यं यदि तुष्टश्च मे प्रभुः 187a
भक्तिर्भवतु मे नित्यं शाश्वती त्वयि शङ्कर 187c
अतीतानागतं चैव वर्तमानं च यद्विभो 188a
जानीयामिति मे बुद्धिस्त्वत्प्रसादात्सुरोत्तम 188c
क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः 189a
आश्रमे च सदा मह्यं सान्निध्यं परमस्तु ते 189c
एवमुक्तः स मां प्राह भगवाल्ँलोकपूजितः 190a
महेश्वरो महातेजाश्चराचरगुरुः प्रभुः 190c
अजरश्चामरश्चैव भव दुःखविवर्जितः 191a
शीलवान्गुणसम्पन्नः सर्वज्ञः प्रियदर्शनः 191c
अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् 192a
क्षीरोदः सागरश्चैव यत्र यत्रेच्छसे मुने 192c
तत्र ते भविता कामं सान्निध्यं पयसो निधेः 193a
क्षीरोदनं च भुङ्क्ष्व त्वममृतेन समन्वितम् 193c
बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि 194a
सान्निध्यमाश्रमे नित्यं करिष्यामि द्विजोत्तम 194c
तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुमर्हसि 195a
स्मृतः स्मृतश्च ते विप्र सदा दास्यामि दर्शनम् 195c
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः 196a
ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत 196c
एवं दृष्टो मया कृष्ण देवदेवः समाधिना 197a
तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता 197c
प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान् 198a
ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा 198c
पश्य वृक्षान्मनोरम्यान्सदा पुष्पफलान्वितान् 199a
सर्वर्तुकुसुमैर्युक्तान्स्निग्धपत्रान्सुशाखिनः 199c
सर्वमेतन्महाबाहो दिव्यभावसमन्वितम् 199e