युधिष्ठिर उवाच 001
किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना 001a
कथं वै लोकयात्रां तु किंशीलश्च समाचरेत् 001c
भीष्म उवाच 002
कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् 002a
मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् 002c
प्राणातिपातं स्तैन्यं च परदारमथापि च 003a
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् 003c
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा 004a
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् 004c
अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् 005a
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् 005c
तस्माद्वाक्कायमनसा नाचरेदशुभं नरः 006a
शुभाशुभान्याचरन्हि तस्य तस्याश्नुते फलम् 006c