युधिष्ठिर उवाच 001
स्त्रीपुंसयोः सम्प्रयोगे स्पर्शः कस्याधिको भवेत् 001a
एतन्मे संशयं राजन्यथावद्वक्तुमर्हसि 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
भङ्गाश्वनेन शक्रस्य यथा वैरमभूत्पुरा 002c
पुरा भङ्गाश्वनो नाम राजर्षिरतिधार्मिकः 003a
अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञमाहरत् 003c
अग्निष्टुं नाम राजर्षिरिन्द्रद्विष्टं महाबलः 004a
प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते 004c
इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः 005a
अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः 005c
कस्यचित्त्वथ कालस्य मृगयामटतो नृप 006a
इदमन्तरमित्येव शक्रो नृपममोहयत् 006c
एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः 007a
न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा 007c
इतश्चेतश्च वै धावञ्श्रमतृष्णार्दितो नृपः 008a
सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा 008c
सोऽवगाह्य सरस्तात पाययामास वाजिनम् 008e
अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः 009a
अवगाह्य ततः स्नातो राजा स्त्रीत्वमवाप ह 009c
आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः 010a
चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः 010c
आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम् 011a
अग्निष्टुं नाम इष्टं मे पुत्राणां शतमौरसम् 011c
जातं महाबलानां वै तान्प्रवक्ष्यामि किं त्वहम् 012a
दारेषु चास्मदीयेषु पौरजानपदेषु च 012c
मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च 013a
स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः 013c
व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः 013e
पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मेऽभवत् 014a
स्त्रीभावात्कथमश्वं तु पुनरारोढुमुत्सहे 014c
महता त्वथ खेदेन आरुह्याश्वं नराधिपः 015a
पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तम 015c
पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते 016a
किं न्विदं त्विति विज्ञाय विस्मयं परमं गताः 016c
अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः 017a
मृगयामस्मि निर्यातो बलैः परिवृतो दृढम् 017c
उद्भ्रान्तः प्राविशं घोरामटवीं दैवमोहितः 017e
अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः 018a
सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् 018c
तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः 019a
अतृप्त इव पुत्राणां दाराणां च धनस्य च 019c
उवाच पुत्रांश्च ततः स्त्रीभूतः पार्थिवोत्तमः 020a
सम्प्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः 020c
अभिषिच्य स पुत्राणां शतं राजा वनं गतः 020e
तामाश्रमे स्त्रियं तात तापसोऽभ्यवपद्यत 021a
तापसेनास्य पुत्राणामाश्रमेऽप्यभवच्छतम् 021c
अथ सा तान्सुतान्गृह्य पूर्वपुत्रानभाषत 022a
पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः 022c
एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः 023a
सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा 023c
तान्दृष्ट्वा भ्रातृभावेन भुञ्जानान्राज्यमुत्तमम् 024a
चिन्तयामास देवेन्द्रो मन्युनाभिपरिप्लुतः 024c
उपकारोऽस्य राजर्षेः कृतो नापकृतं मया 024e
ततो ब्राह्मणरूपेण देवराजः शतक्रतुः 025a
भेदयामास तान्गत्वा नगरं वै नृपात्मजान् 025c
भ्रातॄणां नास्ति सौभ्रात्रं येऽप्येकस्य पितुः सुताः 026a
राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः 026c
यूयं भङ्गाश्वनापत्यास्तापसस्येतरे सुताः 027a
कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा 027c
युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः 027e
इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन् 028a
तच्छ्रुत्वा तापसी चापि सन्तप्ता प्ररुरोद ह 028c
ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वपृच्छत 029a
केन दुःखेन सन्तप्ता रोदिषि त्वं वरानने 029c
ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणमब्रवीत् 030a
पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते 030c
अहं राजाभवं विप्र तत्र पुत्रशतं मया 031a
समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम 031c
कदाचिन्मृगयां यात उद्भ्रान्तो गहने वने 032a
अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम 032c
पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः 032e
स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना 033a
आश्रमे जनितं ब्रह्मन्नीतास्ते नगरं मया 033c
तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज 034a
एतच्छोचामि विप्रेन्द्र दैवेनाभिपरिप्लुता 034c
इन्द्रस्तां दुःखितां दृष्ट्वा अब्रवीत्परुषं वचः 035a
पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् 035c
इन्द्रद्विष्टेन यजता मामनादृत्य दुर्मते 036a
इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते यातितं मया 036c
इन्द्रं तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः 037a
प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः 037c
इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि 037e
प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ 038a
पुत्रा वै कतमे राजञ्जीवन्तु तव शंस मे 038c
स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् 038e
तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः 039a
स्त्रीभूतस्य हि ये जातास्ते मे जीवन्तु वासव 039c
इन्द्रस्तु विस्मितो हृष्टः स्त्रियं पप्रच्छ तां पुनः 040a
पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव 040c
स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम् 041a
कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि 041c
स्त्र्युवाच 042
स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै 042a
तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै 042c
भीष्म उवाच 043
एवमुक्ते ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह 043a
सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि 043c
वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत 044a
पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसि 044c
स्त्र्युवाच 045
स्त्रीत्वमेव वृणे शक्र प्रसन्ने त्वयि वासव 045a
एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह 046a
पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो 046c
एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः 047a
स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा 047c
एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् 047e
रमे चैवाधिकं स्त्रीत्वे सत्यं वै देवसत्तम 048a
स्त्रीभावेन हि तुष्टोऽस्मि गम्यतां त्रिदशाधिप 048c
एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः 049a
एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते 049c