युधिष्ठिर उवाच 001
कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ 001a
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम् 002a
रुक्मिणी देवकीपुत्रसन्निधौ पर्यपृच्छत 002c
नारायणस्याङ्कगतां ज्वलन्तीं दृष्ट्वा श्रियं पद्मसमानवक्त्राम् 003a
कौतूहलाद्विस्मितचारुनेत्रा पप्रच्छ माता मकरध्वजस्य 003c
कानीह भूतान्युपसेवसे त्वं सन्तिष्ठती कानि न सेवसे त्वम् 004a
तानि त्रिलोकेश्वरभूतकान्ते तत्त्वेन मे ब्रूहि महर्षिकन्ये 004c
एवं तदा श्रीरभिभाष्यमाणा देव्या समक्षं गरुडध्वजस्य 005a
उवाच वाक्यं मधुराभिधानं मनोहरं चन्द्रमुखी प्रसन्ना 005c
वसामि सत्ये सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने 006a
नाकर्मशीले पुरुषे वसामि न नास्तिके साङ्करिके कृतघ्ने 006c
न भिन्नवृत्ते न नृशंसवृत्ते न चापि चौरे न गुरुष्वसूये 006e
ये चाल्पतेजोबलसत्त्वसारा हृष्यन्ति कुप्यन्ति च यत्र तत्र 007a
न देवि तिष्ठामि तथाविधेषु नरेषु संसुप्तमनोरथेषु 007c
यश्चात्मनि प्रार्थयते न किञ्चिद्यश्च स्वभावोपहतान्तरात्मा 008a
तेष्वल्पसन्तोषरतेषु नित्यं नरेषु नाहं निवसामि देवि 008c
वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु 009a
वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु 009c
स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च 010a
वसामि सत्यशीलासु स्वभावनिरतासु च 010c
प्रकीर्णभाण्डामनवेक्ष्यकारिणीं सदा च भर्तुः प्रतिकूलवादिनीम् 011a
परस्य वेश्माभिरतामलज्जामेवंविधां स्त्रीं परिवर्जयामि 011c
लोलामचोक्षामवलेहिनीं च व्यपेतधैर्यां कलहप्रियां च 012a
निद्राभिभूतां सततं शयानामेवंविधां स्त्रीं परिवर्जयामि 012c
सत्यासु नित्यं प्रियदर्शनासु सौभाग्ययुक्तासु गुणान्वितासु 013a
वसामि नारीषु पतिव्रतासु कल्याणशीलासु विभूषितासु 013c
यानेषु कन्यासु विभूषणेषु यज्ञेषु मेघेषु च वृष्टिमत्सु 014a
वसामि फुल्लासु च पद्मिनीषु नक्षत्रवीथीषु च शारदीषु 014c
शैलेषु गोष्ठेषु तथा वनेषु सरःसु फुल्लोत्पलपङ्कजेषु 015a
नदीषु हंसस्वननादितासु क्रौञ्चावघुष्टस्वरशोभितासु 015c
विस्तीर्णकूलह्रदशोभितासु तपस्विसिद्धद्विजसेवितासु 016a
वसामि नित्यं सुबहूदकासु सिंहैर्गजैश्चाकुलितोदकासु 016c
मत्ते गजे गोवृषभे नरेन्द्रे सिंहासने सत्पुरुषे च नित्यम् 016e
यस्मिन्गृहे हूयते हव्यवाहो गोब्राह्मणश्चार्च्यते देवताश्च 017a
काले च पुष्पैर्बलयः क्रियन्ते तस्मिन्गृहे नित्यमुपैमि वासम् 017c
स्वाध्यायनित्येषु द्विजेषु नित्यं क्षत्रे च धर्माभिरते सदैव 018a
वैश्ये च कृष्याभिरते वसामि शूद्रे च शुश्रूषणनित्ययुक्ते 018c
नारायणे त्वेकमना वसामि सर्वेण भावेन शरीरभूता 019a
तस्मिन्हि धर्मः सुमहान्निविष्टो ब्रह्मण्यता चात्र तथा प्रियत्वम् 019c
नाहं शरीरेण वसामि देवि नैवं मया शक्यमिहाभिधातुम् 020a
यस्मिंस्तु भावेन वसामि पुंसि स वर्धते धर्मयशोर्थकामैः 020c