युधिष्ठिर उवाच 001
मित्रसौहृदभावेन उपदेशं करोति यः 001a
जात्यावरस्य राजर्षे दोषस्तस्य भवेन्न वा 001c
एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह 002a
सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः 002c
भीष्म उवाच 003
अत्र ते वर्तयिष्यामि शृणु राजन्यथागमम् 003a
ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा मया 003c
उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित् 004a
उपदेशे महान्दोष उपाध्यायस्य भाष्यते 004c
निदर्शनमिदं राजञ्शृणु मे भरतर्षभ 005a
दुरुक्तवचने राजन्यथा पूर्वं युधिष्ठिर 005c
ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे 005e
तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् 006a
बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम् 006c
सिद्धचारणसङ्घुष्टं रम्यं पुष्पितकाननम् 007a
व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् 007c
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसन्निभैः 008a
नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः 008c
दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः 008e
वेदाध्ययनघोषैश्च नादितं भरतर्षभ 009a
वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् 009c
तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः 010a
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः 010c
तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः 011a
वहतो विविधा दीक्षाः सम्प्रहृष्यत भारत 011c
अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ 012a
ततोऽब्रवीत्कुलपतिं पादौ सङ्गृह्य भारत 012c
भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ 013a
तन्मां त्वं भगवन्वक्तुं प्रव्राजयितुमर्हसि 013c
वर्णावरोऽहं भगवञ्शूद्रो जात्यास्मि सत्तम 014a
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे 014c
कुलपतिरुवाच 015
न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम् 015a
आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव 015c
भीष्म उवाच 016
एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप 016a
कथमत्र मया कार्यं श्रद्धा धर्मे परा च मे 016c
विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः 016e
गत्वाश्रमपदाद्दूरमुटजं कृतवांस्तु सः 017a
तत्र वेदिं च भूमिं च देवतायतनानि च 017c
निवेश्य भरतश्रेष्ठ नियमस्थोऽभवत्सुखम् 017e
अभिषेकांश्च नियमान्देवतायतनेषु च 018a
बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् 018c
सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः 019a
नित्यं सन्निहिताभिश्च ओषधीभिः फलैस्तथा 019c
अतिथीन्पूजयामास यथावत्समुपागतान् 020a
एवं हि सुमहान्कालो व्यत्यक्रामत्स तस्य वै 020c
अथास्य मुनिरागच्छत्सङ्गत्या वै तमाश्रमम् 021a
सम्पूज्य स्वागतेनर्षिं विधिवत्पर्यतोषयत् 021c
अनुकूलाः कथाः कृत्वा यथावत्पर्यपृच्छत 022a
ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः 022c
एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ 023a
सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ 023c
अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ 024a
पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु 024c
बाढमित्येव तं विप्र उवाच भरतर्षभ 025a
शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् 025c
अथ दर्भांश्च वन्याश्च ओषधीर्भरतर्षभ 026a
पवित्रमासनं चैव बृसीं च समुपानयत् 026c
अथ दक्षिणमावृत्य बृसीं परमशीर्षिकाम् 027a
कृतामन्यायतो दृष्ट्वा ततस्तमृषिरब्रवीत् 027c
कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः 028a
स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत् 028c
यथोपदिष्टं मेधावी दर्भादींस्तान्यथातथम् 029a
हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना 029c
ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः 030a
पितृकार्ये कृते चापि विसृष्टः स जगाम ह 030c
अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः 031a
वने पञ्चत्वमगमत्सुकृतेन च तेन वै 031c
अजायत महाराजराजवंशे महाद्युतिः 031e
तथैव स ऋषिस्तात कालधर्ममवाप्य ह 032a
पुरोहितकुले विप्र आजातो भरतर्षभ 032c
एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा 033a
क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ 033c
अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः 034a
कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः 034c
सख्ये चापि परा प्रीतिस्तयोश्चापि व्यवर्धत 034e
पितर्युपरते चापि कृतशौचः स भारत 035a
अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः 035c
अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः 035e
स तं पुरोधाय सुखमवसद्भरतर्षभ 036a
राज्यं शशास धर्मेण प्रजाश्च परिपालयन् 036c
पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् 037a
उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् 037c
एवं स बहुशो राजन्पुरोधसमुपाहसत् 037e
लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् 038a
उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमानभूत् 038c
अथ शून्ये पुरोधास्तु सह राज्ञा समागतः 039a
कथाभिरनुकूलाभी राजानमभिरामयत् 039c
ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ 040a
वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते 040c
राजोवाच 041
वराणां ते शतं दद्यां किमुतैकं द्विजोत्तम 041a
स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव 041c
पुरोहित उवाच 042
एकं वै वरमिच्छामि यदि तुष्टोऽसि पार्थिव 042a
यद्ददासि महाराज सत्यं तद्वद मानृतम् 042c
भीष्म उवाच 043
बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर 043a
यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे 043c
पुरोहित उवाच 044
पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् 044a
शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम् 044c
सव्रीडं वै भवति हि मनो मे हसता त्वया 045a
कामया शापितो राजन्नान्यथा वक्तुमर्हसि 045c
भाव्यं हि कारणेनात्र न ते हास्यमकारणम् 046a
कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे 046c
राजोवाच 047
एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि 047a
अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज 047c
पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम 048a
जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु 048c
शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः 049a
ऋषिरुग्रतपास्त्वं च तदाभूर्द्विजसत्तम 049c
प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना 050a
पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ 050c
बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम 050e
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः 051a
अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् 051c
मत्कृते ह्युपदेशेन त्वया प्राप्तमिदं फलम् 051e
एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम 052a
न त्वां परिभवन्ब्रह्मन्प्रहसामि गुरुर्भवान् 052c
विपर्ययेण मे मन्युस्तेन सन्तप्यते मनः 053a
जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै 053c
एवं तवोग्रं हि तप उपदेशेन नाशितम् 054a
पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे 054c
इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज 055a
गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम 055c
भीष्म उवाच 056
ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः 056a
ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः 056c
कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः 057a
तीर्थानि चाभिगत्वा वै दानानि विविधानि च 057c
दत्त्वा गाश्चैव विप्राणां पूतात्मा सोऽभवद्द्विजः 058a
तमेव चाश्रमं गत्वा चचार विपुलं तपः 058c
ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम 059a
सम्मतश्चाभवत्तेषामाश्रमेऽऽश्रमवासिनाम् 059c
एवं प्राप्तो महत्कृच्छ्रमृषिः स नृपसत्तम 060a
ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने 060c
वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप 061a
उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् 061c
एषितव्यं सदा वाचा नृपेण द्विजसत्तमात् 062a
न प्रवक्तव्यमिह हि किञ्चिद्वर्णावरे जने 062c
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः 063a
एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति 063c
तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किञ्चिदग्रतः 064a
सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः 064c
तस्मान्मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः 065a
दुरुक्तस्य भयाद्राजन्नानुभाषन्ति किञ्चन 065c
धार्मिका गुणसम्पन्नाः सत्यार्जवपरायणाः 066a
दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम् 066c
उपदेशो न कर्तव्यः कदाचिदपि कस्यचित् 067a
उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् 067c
विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता 068a
सत्यानृतेन हि कृत उपदेशो हिनस्ति वै 068c
वक्तव्यमिह पृष्टेन विनिश्चित्य विपर्ययम् 069a
स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् 069c
एतत्ते सर्वमाख्यातमुपदेशे कृते सति 070a
महान्क्लेशो हि भवति तस्मान्नोपदिशेत्क्वचित् 070c