युधिष्ठिर उवाच 001
ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह 001a
न प्रयच्छन्ति मोहात्ते के भवन्ति महामते 001c
एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर 002a
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः 002c
भीष्म उवाच 003
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु 003a
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् 003c
यां रात्रिं जायते पापो यां च रात्रिं विनश्यति 004a
एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत 004c
यच्च तस्य हुतं किञ्चित्सर्वं तस्योपहन्यते 004e
अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः 005a
निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया 005c
अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः 006a
अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते 006c
अत्रैवोदाहरन्तीममितिहासं पुरातनम् 007a
सृगालस्य च संवादं वानरस्य च भारत 007c
तौ सखायौ पुरा ह्यास्तां मानुषत्वे परन्तप 008a
अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा 008c
ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् 009a
श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन् 009c
किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम् 010a
यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् 010c
एवमुक्तः प्रत्युवाच सृगालो वानरं तदा 011a
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम् 011c
तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवङ्गम 012a
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः 012c
इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम् 013a
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् 013c
श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते 014a
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव 014c
एवमेव च मां नित्यं ब्राह्मणाः सन्दिशन्ति वै 015a
प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः 015c
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते 016a
सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः 016c
यं निरीक्षेत सङ्क्रुद्ध आशया पूर्वजातया 017a
प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा 017c
स एव हि यदा तुष्टो वचसा प्रतिनन्दति 018a
भवत्यगदसङ्काशो विषये तस्य भारत 018c
पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा 019a
पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति 019c
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते 020a
सहस्रकिरणस्येव सवितुर्धरणीतले 020c
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर 021a
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम 021c
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः 022a
शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया 022c
इतो दत्तेन जीवन्ति देवताः पितरस्तथा 023a
तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता 023c
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते 024a
वेलायां न तु कस्याञ्चिद्गच्छेद्विप्रो ह्यपूजितः 024c