युधिष्ठिर उवाच 001
के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत 001a
एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप 001c
उत्तमापद्गतस्यापि यत्र ते वर्तते मनः 002a
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत 002c
भीष्म उवाच 003
स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् 003a
येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः 003c
येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम् 004a
उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम् 004c
विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् 005a
श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् 005c
संसत्सु वदतां येषां हंसानामिव सङ्घशः 006a
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः 006c
सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर 007a
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः 007c
ये चापि तेषां श्रोतारः सदा सदसि सम्मताः 008a
विज्ञानगुणसम्पन्नास्तेषां च स्पृहयाम्यहम् 008c
सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च 009a
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर 009c
ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम् 009e
शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम् 010a
शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर 010c
तेषां सङ्ख्यायमानानां दानशूरो विशिष्यते 010e
धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा 011a
कुले जातो धर्मगतिस्तपोविद्यापरायणः 011c
न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन 012a
त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ 012c
यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह 013a
तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः 013c
न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत् 014a
न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः 014c
न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह 015a
अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः 015c
कर्मणा मनसा वापि वाचा वापि परन्तप 016a
यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् 016c
ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः 017a
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् 017c
पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः 018a
तेषु मे तात गन्तव्यमह्नाय च चिराय च 018c
यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर 019a
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः 019c
क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः 020a
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता 020c
नारी तु पत्यभावे वै देवरं कुरुते पतिम् 021a
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् 021c
पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते 022a
अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम 022c
ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान् 023a
आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा 023c
तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर 024a
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा 024c
व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते 025a
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः 025c
भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् 026a
कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत् 026c
दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत् 027a
ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् 027c
पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः 028a
गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम् 028c