युधिष्ठिर उवाच 001
कर्मणां मे समस्तानां शुभानां भरतर्षभ 001a
फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः 001c
भीष्म उवाच 002
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर 002a
या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता 002c
येन येन शरीरेण यद्यत्कर्म करोति यः 003a
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते 003c
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् 004a
तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि 004c
न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह 005a
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च 005c
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् 006a
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः 006c
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते 007a
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् 007c
स्थण्डिले शयमानानां गृहाणि शयनानि च 008a
चीरवल्कलसंवीते वासांस्याभरणानि च 008c
वाहनासनयानानि योगात्मनि तपोधने 009a
अग्नीनुपशयानस्य राजपौरुषमुच्यते 009c
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति 010a
आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति 010c
अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत् 011a
सततं चैकशायी यः स लभेतेप्सितां गतिम् 011c
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् 012a
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः 012c
वीरासनं वीरशय्यां वीरस्थानमुपासतः 013a
अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा 013c
धनं लभेत दानेन मौनेनाज्ञां विशां पते 014a
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् 014c
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते 015a
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा 015c
प्रायोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते 016a
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् 016c
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः 017a
स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् 017c
सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः 018a
मरुं साधयतो राज्यं नाकपृष्ठमनाशके 018c
उपवासं च दीक्षां च अभिषेकं च पार्थिव 019a
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते 019c
अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते 020a
मानसं हि चरन्धर्मं स्वर्गलोकमवाप्नुयात् 020c
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः 021a
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् 021c
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् 022a
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति 022c
अचोद्यमानानि यथा पुष्पाणि च फलानि च 023a
स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् 023c
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः 024a
चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते 024c
येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः 025a
प्रीणाति मातरं येन पृथिवी तेन पूजिता 025c
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् 025e
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः 026a
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः 026c
वैशम्पायन उवाच 027
भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुङ्गवाः 027a
आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा 027c
यन्मन्त्रे भवति वृथा प्रयुज्यमाने यत्सोमे भवति वृथाभिषूयमाणे 028a
यच्चाग्नौ भवति वृथाभिहूयमाने तत्सर्वं भवति वृथाभिधीयमाने 028c
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो 029a
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि 029c